शब्दकल्पद्रुमः
वियोगभाक् || [ज्] त्रि, (वियोगं भजते इति । भज + विण् ।) विच्छेदयुक्तः । यथा, नैषधे । “वियोगभाजोऽपि नृपस्य पश्यता तदेव साक्षादमृतांशुमाननम् । पिकेन रोषारुणचक्षुषा मुहुः कुहूरुताहूयत चन्द्रवैरिणी ॥”