वाचस्पत्यम्
वियोग || पु० वि + यज—घञ् । १ विच्छेदे हेमच० ६ त० २ पक्षियोगे च गणितप्रसिद्धे ३ राश्योर्व्यवकलने च ।
शब्दकल्पद्रुमः
वियोगः || पुं, (वि + युज + घञ् ।)
विच्छेदः । तत्पर्य्यायः । विप्रलम्भः २ विप्रयोगः ३ विरहः ४ । इति हेमचन्द्रः ॥ (यथा, भागवते । ९ । १३ । ९ । “यस्य योगं न वाञ्छन्ति वियोगभयकातराः । भजन्ति चरणाम्भोजं मुनयो हरिमेधसः ॥”)