वाचस्पत्यम्
वियोगिन् || पु० वि + युज—घिनुण् । १ चक्रवाके पक्षिणि शब्दच० । २ विच्छेदवति । ३ पक्षियोगवति च त्रि० । स्त्रियां ङीप् “वियोगिनीमैक्षत दाडिमीमसौ” नैष० ।
शब्दकल्पद्रुमः
वियोगी || [न्] पुं, (वियोगोऽस्यास्तीति । वियोग + इनिः ।)
चक्रवाकः । इति शब्दचन्द्रिका ॥ वियोगयुक्ते, त्रि ॥ (यथा, मार्कण्डेये । २२ । २५ । “ताः शोच्या या वियोगिन्यो न शोच्या या मृताः सह । भर्त्तुर्व्वियोगस्त्वनया नानुभूतः कृतज्ञया ॥”)