संस्कृत-शब्दकोशः

वियोजित विरक्ता

विरक्त

वाचस्पत्यम्

विरक्त ||‍ त्रि० वि + रन्ज—क्त । १ विच्छिन्ने २ अननुरक्ते ३ दुर्भगायां स्त्रियां स्त्री त्रिका० ।


शब्दकल्पद्रुमः

विरक्तः || त्रि (वि + रन्ज + क्तः ।)
विरागयुक्तः । अननुरक्तः । यथा, —
“ज्ञाननिष्ठो विरक्तो वा मद्भक्तो वानपेक्षकः । स्वलिङ्गानाश्रमांस्त्यक्त्वा चरेदविधिगोचरः ॥” इति श्रीभागवते ११ स्कन्धे १८ अध्यायः ॥ (यथा च । “त्वयि प्रसन्ने मम किं गुणेन त्वय्यप्रसन्ने मम किं गुणेन । रक्ते विरक्ते च वरे बधूनां निरर्थकः कुङ्कुमराग एषः ॥” इत्युद्भटः ॥)



Correction: