विरक्त
विरक्ति
विरक्ता
शब्दकल्पद्रुमः
विरक्ता || स्त्री दुर्भगा । इति त्रिकाण्डशेषः ॥ अननुकूला । यथा, नीतिशतके । १ । “यां चिन्तयामि सततं मयि सा विरक्ता सा चान्यमिच्छति जनं स जनोऽन्यरक्तः । अस्मत्कृतेऽपि परितुष्यति काचिदन्या धिक् ताञ्च तञ्च मदनञ्च इमाञ्च माञ्च ॥”