वाचस्पत्यम्
विरजस्(स्का) || स्त्री विगतं रजो यस्याः वा कप् । १ गतार्त्त वायां स्त्रियाम् जटा० । २ रजोगुणहीने त्रि० ।
शब्दकल्पद्रुमः
विरजाः || [स्] स्त्री, (विनिवृत्तं रजः शोणितं यस्याः ।)
विगतार्त्तवा । इति जटाधरः ॥ (नास्ति रजो धूलिर्यत्र । धूलिरहिते, त्रि । यथा, महाभारते । १ । ९३ । १५ । “सर्व्वैरिदानीं गन्तव्यं सह स्वर्गजितो वयम् । एष नो विरजाः पन्था दृश्यते देवसद्मनः ॥” निर्म्मलः । यथा, महाभारते । २ । ७ । ५ । “विरजोऽम्बरश्चित्रमाल्यो ह्रीकीर्त्तिद्यूतिभिः सह ॥” पुं, नागविशेषः । यथा, महाभारते । १ । ३५ । १४ । “विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्य्य- वान् ॥”)