वाचस्पत्यम्
विराग || पु० नि + रन्ज—घञ् । १ रागाभाव । विगतो रागो यस्य । २ रागशून्ये त्रि० । “विधयेष्वतिसंरागो मानसो मल उच्यते । तेष्वेव तु विरागो हि नैर्मल्यं समुदा- हृतम्” प्रा० त० । वैराग्यशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
विरागः || पुं, (वि + रञ्ज + घञ् ।)
अननुरागः । रागशून्यः । यथा, —
“विषयेष्वतिसं रागो मानसो मल उच्यते । तेष्वेव हि विरागो हि नैर्मल्यं समुदाहृतम् ॥” इति प्रायश्चित्ततत्त्वम् ॥ (त्रि, विविधवर्णविशिष्टः । यथा, महाभारते । २ । २१ । २५ । “बलाद्गृहीत्वा माल्यानि मालाकारान्महा- बलाः । विरागवसनाः सर्व्वे स्रग्विणो मृष्टकुण्डलाः ॥” विगतो रागो विषयवासना यस्येत्यर्थे । वीत- रागः । यथा, भागवते । ३ । १५ । ४७ । “यत्तेऽनुतापविदितै र्दृढभक्तियोगैः हृद्ग्रन्थयो हृदि विदुर्म्मुनयो विरागाः ॥”)