वाचस्पत्यम्
विराज् || पु० विशषेण राजते क्विप् । १ क्षत्रिये ब्रह्माण्डा- त्मकस्थूलदेहाभिमानिनि २ आदिपुरुषे ३ छन्दोभेदे च । वेदे द्वाभ्यामक्षराभ्यां गायत्र्यादीनां समष्टावधिकत्वे विराट् छन्दो भवति छन्दःशब्दे २९७८ पृ० कात्यायनवाक्यं दृ- श्यम् । “समष्टिरूपस्थूलशरीराभिमानी चेतनः विराट्- संज्ञो वेदान्तादौ प्रसिद्धः तस्योत्पत्तिः तद्रूपञ्च भागव- तादौ दृश्यम् । अच् । विराजोऽपि समष्टिस्थूलाभिमा- निनि चेतने । ४ स्वायम्भवमनौ च । “ततः कालेन महता तस्य पुत्रोऽभवन्मनुः । स्वायम्भुव इति ख्यातः स विवाडितिः नः श्रुतम्” मत्स्यपु० ३ अ० । “मानवे तु स्वाय- म्भुवस्य विराट्पुत्रत्वमभिहितम् । यथा “द्विधा कृत्वा- त्मनो देहमर्द्धेन पुरुषोऽभवत् । अर्द्धेन नारी नाभ्यां स विराजमसृजत् प्रभुः । तपस्त्वप्त्वाऽसृजद् यन्तु स स्वयं पुरुषो विराट् । तं मां वित्तास्य सर्वस्य स्वष्टारं द्विजसत्तमाः!” ।
शब्दकल्पद्रुमः
विराट् || [ज्] पुं, (विशेषेण राजते इति । राज दीप्तौ + क्विप् ।)
क्षत्त्रियः । इत्यमरः ॥ स्थूल- शरीरसमष्ट्युपहितचैतन्यम् । इति वेदान्त- सारः ॥ * ॥
(ब्रह्मणो विराड्मूर्त्तिवर्णनं यथा, शङ्करविजये ६ प्रकरणे । “व्यूहमूर्त्तिर्विराट् चतुर्द्दशलोकात्मकः । तस्य ब्रह्माण्डकर्परपर्य्यन्त- माकाशः शिरः, चन्द्रसूर्य्यौ नेत्रे, प्रागादिदिशः श्रोत्रे, अन्तरीक्षलोको घ्राणं, मेरुः पृष्ठवंशः, शिखरत्रयं भुजकण्ठाः, प्रत्यन्तपर्वताः पृष्ठपार्श्व- वक्षांसि, उपपर्वताः शाल्मल्यादीनि, समुद्रा रक्तं, लता स्नायूनि, तृणवृक्षाः रोमाणि, भूमिः कुक्षिः, द्वीपा वलयः, भूरेखा रोमराजिः, भूमध्यप्रदेशो वस्तिः, शेषः शिश्नं, दिग्दन्ति- पङ्क्तिर्नितम्बोरुभागः, अतलादिसप्तकं कटि- पादान्तरालः, कूर्म्मः पादौ इति ॥” * ॥
)
महा- विराजुत्पत्तिर्यथा, — श्रीनारायण उवाच । “अथ डिम्बो जले तिष्ठन् यावद्वै ब्रह्मणो वयः । ततः स काले सहसा द्विधा भूतो बभूव ह ॥ तन्मध्ये शिशुरेकश्च शतकोटिरविप्रभः । क्षणं रोरूयमानश्च स्तनन्धः पीडितः क्षुधा ॥ पितृमातृपरित्यक्तो जलमध्ये निराश्रयः । ब्रह्माण्डसंघनाथो यो ददर्शोर्द्ध्वमनाथवत् ॥ स्थूलात् स्थूलतमः सोऽपि नाम्ना देवो महा- विराट् । परमाणुर्यथा सूक्ष्मात् परः स्थूलात्तथाप्यसौ ॥ तेजसा षोडशांशो यः कृष्णस्य परमात्मनः । आधारोऽसंख्यविश्वानां महान् विष्णुश्च प्राकृतः । प्रत्येकं लोमकूपेषु विश्वानि निखिलानि च । तस्यापि तेषां संख्याञ्च कृष्णो वक्तुं न हि क्षमः ॥ संख्या चेद्रजसाभस्ति विश्वानां न कदाचन । ब्रह्मविष्णुशिवादीनां तथा संख्या न विद्यते ॥ प्रतिविश्वेषु सन्त्येवं ब्रह्मविष्णुशिवादयः । पातालाद्ब्रह्मलोकान्तं ब्रह्माण्डं परिकीर्त्तितम् ॥ अत ऊर्द्ध्वे च वैकुण्ठो ब्रह्माण्डाद्वहिरेव च । स च सत्यस्वरूपश्च शश्वन्नारायणो यथा ॥ अत ऊर्द्ध्वञ्च गोलोकः पञ्चाशत्कोटियोजनात् । नित्यं सत्यस्वरूपश्च यथा कृष्णस्तथाप्ययम् ॥ सप्तद्वीपमिता पृथ्वी सप्तसागरसंयुता । ऊनपञ्चाशदुपद्वीपासंख्यशैलसमन्विता ॥ ऊर्द्ध्वं स्वर्गाः सप्त लोका ब्रह्मलोकसमन्विताः । पातालानि च सप्ताधश्चैवं ब्रह्माण्डमेव च ॥ ऊर्द्ध्वं धराया भूर्लोको भुवर्लोकस्ततः परः । ततः परश्च स्वर्लोको जनो लोकस्ततः परः ॥ ततः परस्तपोलोकः सत्यलोकस्ततः परः । ततः परो ब्रह्मलोकस्तप्तकाञ्चननिर्म्मितः ॥ एवं सर्व्वं कृत्रिमञ्च धराभ्यन्तरमेव च । तद्विनाशे विनाशश्च सर्व्वेषामेव नारद ॥ जलबुद्वुदवत् सर्व्वं विश्वसंघमनित्यकम् । नित्यौ वैकुण्ठगोलोकौ सत्यौ शश्वदकृत्रिमौ ॥ प्रतिलोमकूपे ब्रह्माण्डं प्रत्येकमस्य निश्चितम् । एषां संख्या न जानाति कृष्णोऽन्यस्यापि का कथा ॥ प्रत्येकं प्रतिब्रह्माण्डे ब्रह्मविष्णुशिवादवः । तिस्रः कोट्यः सुराणाञ्च संख्याः सर्व्वत्र पुत्त्रक ॥ दिगीशाश्चैव दिक्पाला नक्षत्राणि ग्रहादयः । भुवि वर्णाश्च चत्वारोऽप्यधो नागाश्चराचराः ॥ अथ काले च स विराट् ऊर्द्ध्वं दृष्ट्वा पुनः पुनः । डिम्बान्तरञ्च शून्यञ्च न द्बितीयञ्च कञ्चन ॥ चिन्तामवाप क्षुद्युक्तो रुरोद च पुनः पुनः । ज्ञानं प्राप्य तदा दध्यौ कृष्णं परमपूरुषम् ॥ ततो ददर्श तत्रैव ब्रह्मज्योतिः सनातनम् । नवीनजलदश्यामं द्विभुजं पीतवाससम् ॥ सस्मितं मुरलीहस्तं भक्तानुग्रहकारकम् । जहास बालकस्तुष्टो दृष्ट्वा जनकमीश्वरम् ॥ वरं तस्मे ददौ तुष्टो वरेशः समयोचितम् । मत्समो ज्ञानयुक्तश्च क्षुत्पिपासादिवर्ज्जितः ॥ ब्रह्माण्डासंख्यनिलयो भव वत्स लयावधि । निष्कामो निर्भयश्चैव सर्व्वेषां वरदो वरः ॥ जरामृत्युरोगशोकपीडादिवर्ज्जितो भव । इत्युक्त्वा च द्रक्षकर्णे महामन्त्रं षडक्षरम् ॥ त्रिःकृत्वश्च प्रजजाप वेदागमवरं परम् । प्रणवादिचतुर्थ्यन्तं कृष्ण इत्यक्षरद्वयम् ॥ वह्निजायान्तमिष्टञ्च सर्व्वविघ्नहरं परम् । मन्त्रं दत्त्वा तदाहारं कल्पयामास स प्रभुः ॥ श्रूयतां मद्वचः श्रुत्वा निबोध कथयामि ते । प्रतिविश्वेषु यन्नैवद्यं ददाति विष्णवे जनः ॥ तत्षोडशांशं विषयिणो विष्णोः पञ्चदशस्य वै । निर्गुणस्यात्मनश्चैव परिपूर्णतमस्य च ॥ नैवेद्येन च कृष्णस्य नहि किञ्चित् प्रयोजनम् । यद्यद्ददाति नैवेद्यं यस्मै देवाय यो जनः ॥ स च खादति तत् सर्व्वं लक्ष्मीदृष्ट्या पुनर्भवेत् । तञ्च मन्त्रं वरं दत्त्वा तमुवाच पुनर्व्विभुः ॥ वरमन्यं किमिष्टन्ते तन्मे ब्रूहि ददामि च । कृष्णस्य वचनं श्रुत्वा तमुवाच महाविराट् ॥ अदन्तो बालकस्तत्र वचनं समयोचितम् ॥ श्रीमहाविराडुवाच । वरं मे त्वत्पदाम्भोजे भक्तिर्भवतु निश्चला । सन्ततं यावदायुर्मे क्षणं वा सुचिरं हि वा ॥ त्वद्भक्तियुक्तो यी बालो जीवन्मुक्तश्च सन्ततम् । तद्भक्तिहीनो मूर्खश्च जीवन्नपि मृतो हि सः ॥ किन्तज्जपेन तपसा यज्ञेन पूजनेन च । कृष्णभक्तिविहीनस्य मूर्खस्य जीवनं वृथा ॥ येनात्मना जीवितश्च तमेव नहि मन्यते । यावदात्मा शरीरेऽस्ति तावत् स शक्तिसंयुतः ॥ पश्चाद्यान्ति गते तस्मिन् न स्वतन्त्राश्च शक्तयः । स च त्वाञ्च महाभाग सर्व्वात्मा प्रकृतेः परः ॥ स्वेच्छामयश्च सर्व्वेभ्यो ब्रह्मज्योतिः सनातनः । इत्युक्त्वा बालकस्तत्र विरराम च नारद ॥ उवाच कृष्णः प्रत्युक्तिं मधुरां श्रुतिसुन्दरीम् ॥ श्रीकृष्ण उवाच । सुचिरं सुस्थिरं तिष्ठ यथाहं त्वं तथा भव । ब्रह्मणोऽसंख्यपाते च पातस्ते न भविष्यति ॥ अंशेन प्रतिब्रह्माण्डे त्वञ्च क्षुद्रविराड्भव । तन्नाभिपद्मे ब्रह्मा च विश्वस्रष्टा भविष्यति ॥ ललाटे ब्रह्मणश्चैव रुद्राश्चैकादशैव तु । शिवांशेन भविष्यन्ति सृष्टिसञ्चारणाय वै ॥ कालाग्निरुद्रस्तेष्वेको विश्वसंहारकारकः । पाता विष्णुश्च विषयी क्षुद्रांशेन भविष्यति ॥ मद्भक्तियुक्तः सततं भविष्यसि वरेण मे । ध्यानेन कमनीयं मां नित्यं द्रक्ष्यसि निश्चितम् ॥ मातरं कमनीयाञ्च मम वक्षःस्थलस्थिताम् । यामि लोकं तिष्ठ वत्सेत्युक्त्वा सोऽन्तरधीयत ॥ गत्वा स्वलोकं ब्रह्माणं शङ्करं स उवाच ह । स्रष्टारं स्रष्टुमीशश्च संहर्त्तारश्च तत्क्षणम् ॥ श्रीकृष्ण उवाच । सृष्टिं स्रष्टुं गच्छ वत्स नाभिपद्मोद्भवो भव । महाविराड्लोमकूपे क्षुद्रस्य च विधे शृणु ॥ गच्छ वत्स महादेव ब्रह्मभालोद्भवो भव । अंशेन च महाभाग स्वयञ्च सुचिरं तपः ॥ इत्युक्त्वा जगतां नाथो विरराम विधिस्ततः । जगाम ब्रह्मा तं नत्वा शिवश्च शिवदायकः ॥ महाविराड्लोमकूपे ब्रह्माण्डे गोलोके जले । बभूव च विराट् क्षुद्रो विराडंशेन सांप्रतम् ॥ श्यामो युवा पीतवासाः शयानो जलतल्पके । ईषद्धास्यः प्रसन्नास्यो विश्वव्यापी जनार्द्दनः ॥ तन्नाभिकमले ब्रह्मा बभूव कमलोद्भवः । संभूय पद्मदण्डञ्च बभ्राम युग-लक्षकम् ॥ नान्तं जगाम दण्डस्य पद्मनाभस्य पद्मजः । नाभिजस्य च पद्मस्य चिन्तामाप पिता तव ॥ स्वस्थाने पुनरागत्य दध्यौ हृष्टः पदाम्बुजम् । ततो ददर्श क्षुद्रन्तं कालेन दिव्यचक्षुषा ॥ शयानं जलतल्पे च ब्रह्माण्डे गोलकावृते ॥ यल्लोमकूपे ब्रह्माण्डं तञ्च तत् परमेश्वरम् । श्रीकृष्णञ्चापि गोलोकं गोपगोपीसमन्वितम् ॥ तं संस्तूय वरं प्राप ततः सृष्टिञ्चकार सः । बभूवुर्ब्रह्मणः पुत्त्रा मानसाः सनकादयः ॥ ततो रुद्राः कपालाच्च शिवांशैकादश स्मृताः । बभूव पाता विष्णुश्च क्षुद्रस्य वामपार्श्वतः ॥ चतुर्भुजश्च भगवान् श्वेतद्वीपनिवासकृत् । क्षुद्रस्य नाभिपद्मे च ब्रह्मा विष्णुं ससर्ज्ज च ॥ स्वर्गं मर्त्यञ्च पातालं त्रिलोकं सचराचरम् । एवं सर्व्वं लोमकूपे विश्वं प्रत्येकमेव च ॥ प्रतिविश्वे क्षुद्रविराट् ब्रह्मविष्णुशिवादयः । इत्येवं कथितं वत्स श्रीकृष्णकीर्त्तनं परम् ॥ सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ३ अध्यायः ॥ स्वायम्भुवमनुः । यथा, —
“गतेषु तेषु सृष्ट्यर्थं प्रणामावनतामिमाम् । उपयेमे स विश्वात्मा शतरूपामनिन्दिताम् ॥ सम्बभूव तया सार्द्धमतिकामातुरो विभुः । सलज्जां चकमे देवः कमलोदरमन्दिरे ॥ यावदन्दशतं दिव्यं यथान्यः प्राकृतो जनः । ततः कालेन महता ततः पुत्त्रोऽभवन्मनुः ॥ स्वायम्भुव इति ख्यातः स विराडिति नः श्रुतम् । तद्रूपगुणसामान्यादधिपूरुष उच्यते ॥ वैराजा यत्र ते जाता बहवः शंसितव्रताः । स्वायम्भुवा महाभागा सप्त सप्त तथापरे ॥ स्वारोचिषाद्या सर्व्वे ते ब्रह्मतुल्याः स्वरूपिणः । औत्तमिप्रमुखास्तद्वद्येषां त्वं सप्तमोऽधुना ॥” इति मात्स्ये ३ अध्यायः ॥