संस्कृत-शब्दकोशः

विराज् विराटक

विराट

वाचस्पत्यम्

विराट ||‍ पु० विशेषो राटो यत्र । १ देशभेदे, तद्देशाधिपे २ नृपे च । भा० विराटपर्वणि दृश्यम् ।


शब्दकल्पद्रुमः

विराटः || पुं, देशविशेषः । इति शब्दरत्नावली ॥ (अत्रैव पञ्चपाण्डवाः सह द्रौपद्या अज्ञात- मुषितवन्तः । यथा, महाभारते । ४ । १ । १ । “कथं विराटनगरे मम पूर्ब्बपितामहाः । अज्ञातवासमुषिता दुर्य्योधनभयार्द्दिताः ॥”)
तद्देशीयराजा । यथा, —
“अत्र शूरा महेष्वासा भीमार्ज्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः ॥” इति श्रीभगवद्गीतायाम् १ अध्यायः ॥



Correction: