वाचस्पत्यम्
विराम || पु० वि + रम—घञ् । १ अवसाने, २ विरतौ, ३ निवृत्तौ च जटा० । ४ मध्ये त्रिका० ५ व्याकरणोक्ते परवर्णाभावे च ।
शब्दकल्पद्रुमः
विरामः || पुं, (वि + रम + घञ् ।)
शेषः । निवृत्तिः । विरतिः । तत्पर्य्यायः । अवसानः २ सातिः ३ । इति जटाधरः ॥ मध्यम् ४ । इति त्रिकाण्ड- शेषः ॥ (यथा, मनौ । २ । ७३ । “अध्येष्यमाणन्तु गुरुं नित्यकालमतन्द्रितः । अधीष्व भो इति ब्रूयात् विरामोऽस्त्वितिचार- मेत् ॥”)
परवर्णाभावः । इति व्याकरणम् ॥ (यथा, पाणिनौ । १ । ४ । ११० । “विरामोऽवसानम् ॥”)