संस्कृत-शब्दकोशः

विरिब्ध विरुदावली

विरुद

शब्दकल्पद्रुमः

विरुदः || पुं, गुणोत्कर्षादिवर्णनम् । यदुक्तम् । “वाशिकः कम्पितश्चेति विरुदो द्विविधो मतः । संयुक्तनियमो ह्यत्र वर्णितः पूर्ब्बवद्बुधैः ॥ द्विचतुःषड् दशश्चात्र कलास्तु विरुदे मताः । दशभ्यो नाधिकाः कार्य्याः कलास्तु विरुदे बुधैः ॥ कलिकाभ्यस्तु विरुदे भिदासावेव कीर्त्तिता । विरुदं कवयः प्राहुर्गुणोत्कर्षादिवर्णनम् । विरुदः कलिका चान्ते धीरवीरादिशब्दभाक् ॥ इत्युपोद्घातः । इति श्रीरूपगोस्वामिकृतश्रीगो- विन्दविरुदावलीभाष्ये श्रीबलदेवविद्याभूषणः ॥



Correction: