संस्कृत-शब्दकोशः

विरुद विरुद्ध

विरुदावली

शब्दकल्पद्रुमः

विरुदावली || स्त्री (विरुदानामावली ।)
विरुद- श्रेणी । स्तवमाला । तल्लक्षणादि यथा, —
“अधीत्य विरुदावल्या लक्षणं ग्रन्थकृत्कृतम् । एताञ्चेत् पठति प्राज्ञस्तदा बोधोऽस्य पुष्कलः ॥ सामान्यविरुदावल्या गोविन्दविरुदावलौ । योऽभ्यधायि विशेषस्तैः स तावदिह लिख्यते ॥ कलिका लोकविरुदैर्युता विविधलक्षणैः । कीर्त्तिप्रतापशौटीर्य्यसौन्दर्य्योन्मेषशालिनी ॥ कलिकाद्यन्तसंसर्गिपद्या दोषविवर्ज्जिता । शब्दाडम्बरसंवद्धा कर्त्तव्या विरुदावली ॥” इति श्रीरूपगोस्वामिकृते श्रीगोविन्दविरुदावली- भाष्ये श्रीबलदेवविद्याभूषणः ॥ * ॥
कलिका- लक्षणं कलिकाशब्दे लिखितम् । विरुदलक्षणं तच्छब्दे द्रष्टव्यम् ॥



Correction: