संस्कृत-शब्दकोशः

विरुद्धमतिकृत् विरूप

विरूढ

वाचस्पत्यम्

विरूढ ||‍ त्रि० विशेषेण रोहति वि + रुह—क्त । १ जाते २ अङ्कुरिते च मेदि० ।


शब्दकल्पद्रुमः

विरूढः || त्रि अङ्कुरितः । (यथा, “विरूढजान्नं अङ्कुरितधान्यकृतमन्नम् ।” इति माधवकृतरुग्वि- निश्चये शूलव्याख्याने विजयरक्षितः ॥)
जातः । इति मेदिनी । ढे, ९ ॥ (यथा, रघुवंशे । २ । २६ । “गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गह्वरमाविवेश ॥”)
आरोहणविशिष्टः । यथा । “सन्तुष्टे तिसृणां पुरामपि रिपौ कण्डूलदो- र्मण्डली लीलालूनपुनर्विरूढशिरसो वीरस्य लिप्सु- र्व्वरम् ।” इत्यादि मुरारिः ॥



Correction: