वाचस्पत्यम्
विरूप || त्रि० विकृतं रूपमस्य । १ दुष्टरूपयुक्ते २ निन्दिते च । ५ पिप्पलीमूले न० राजनि० । ४ अतिविषाया, ५ दुराल- भायाञ्च स्त्री० राजनि० ।
शब्दकल्पद्रुमः
विरूपं || क्ली पिप्पलीभूलम् । इति राजनिर्घण्टः ॥
शब्दकल्पद्रुमः
विरूपः || त्रि (विकृतं रूपं यस्य ।)
कुत्सितः । कुरूपः । यथा, —
“विरूपोन्मत्तनिस्वानामकुत्सापूर्ब्बकं हि यत् । पूरणं दानमालाभ्यामनुग्रह उदाहृतः ॥” इति रामतर्कवागीशः ॥ (यथा, बृहत्संहितायाम् । ७० । २३ । “या तूत्तरोष्ठेन समुन्नतेन रूक्षाग्रकेशी कलहप्रिया सा । प्रायो विरूपासु भवन्ति दोषा यत्राकृतिस्तत्र गुणा वसन्ति ॥” परित्यक्तरूपः । यथा, ऋग्वेदे । १० । ९५ । १६ । “यद्विरूपाचरं मर्त्तेष्ववसंरात्रीः शरदश्चतस्रः ।” “यद्यदा विरूपा परं मनुष्यस्य सम्पर्कात् विगतसहजभूतदेवरूपाः ।” इति तद्भाष्ये सायणः ॥ नानारूपः । यथा, ऋग्वेदे । ३ । ५३ । ७ । “इमे भोजा अङ्गिरसो विरूपा दिवस्पुत्त्रासो असुरस्य वीराः ॥” “हे इन्द्र इमे यागं कुर्व्वाणा भोजाः सौदासाः क्षत्त्रियाः तेषां याजका विरूपाः विविधरूपा मेधातिथिप्रभृतयः ॥” इति तद्भाष्ये सायणः ॥ विरुद्धः । यथा, साहित्यदर्पणे । १० परिच्छेदे । “विरूपयोः संघटना या च तद्विषमं मतम् ॥” उदाहरणं यथा, —
“क्व वनं तरुवल्कभूषणं नृपलक्ष्मीः क्व महेन्द्रवन्दिता ॥”)
स्वार्थे के विरूपकश्च ॥
शब्दकल्पद्रुमः
विरूपः || पुं, सुमनोराजपुत्त्रः । यथा, —
“जाताः सुमनसः पुत्त्रास्त्रयः शूरा महाबलाः । सुमतिश्च विरूपश्च सत्यः शास्त्रार्थपारगाः ॥” इति कालिकापुराणे ९० अध्यायः ॥