वाचस्पत्यम्
विरेक || पु० वि + रिच—घञ् । १ मलादेरधोनिःसरणे, शब्दर० । २ अतिरेके च ।
शब्दकल्पद्रुमः
विरेकः || पुं, (वि + रिच् + घञ् ।)
मलभेदः । तत्पर्य्यायः । रेचनम् २ रेकः ३ रेचना ४ विरे- चनम् ५ । इति शब्दरत्नावली ॥ प्रस्कन्दनम् ६ । इति रत्नमाला ॥ (यथा, वैद्यके । “धूमात्युष्णशिरो विरेकवमनस्वेदोपनाहा- दिकं पानाहारविहारभेषजमिदं श्लेष्माणमुग्रं जयेत् ॥” अस्य योग्यायोग्या यथा, —
“बालवृद्धकृशक्षीणपीनसार्त्तभयार्द्दिताः । रूक्षशोषतृषायुक्ता गर्भिणी च नवज्वरी ॥ अधो गच्छति यस्यासृक्सूतिकातङ्करोगिणी । नैते विरेकयोग्याः स्युरन्येषाञ्च बलाबलम् ॥ नवज्वरे च ये योगा भेदकाः परिकीर्त्तिताः । ते तथैव प्रयोक्तव्या वीक्ष्य देहमलादिकम् ॥” इति वैद्यकरसेन्द्रसारसंग्रहे विरेकाधिकारे ॥)