विरेक
विरेचन
विरेचक
शब्दकल्पद्रुमः
विरेचकः || त्रि रेचकः । विरेककारकः । सारकः । मलभेदकः । जोल्लाव इति आरवीभाषा ॥ विपूर्ब्बकरिच्धातोर्वुन्प्रत्ययेन निष्पन्नः । (यथा, वैद्यके । “पटोलपत्रं पित्तघ्नं नाडी तस्य कफापहा । फलं तस्य त्रिदोषघ्नं मूलं तस्य विरेचकम् ॥”)