वाचस्पत्यम्
विरेचन || न० वि + रिच—णिच्—ल्युट् । १ मलादेर्निःसारणे, तद्विधिः भावप्र० उक्तो यथा “स्निग्धस्विन्नाय वान्ताय दद्यात्सम्यग्विरेचनम् । अवा- न्तस्य त्वधःस्रस्तो ग्रहणीं छादयेत्कफः । मन्दाग्निं गौरवं कुर्य्याज्जनयेद् वा प्रवाहिकाम् । अथ वा पाचनैरामं वलासं परिपाचयेत् । ऋतौ वसन्ते श- रदि देहशुद्धौ विरेचयेत् । अन्यदात्ययिके कार्य्ये शोधनं शीलयेद् बुधः” । आत्ययिके प्राणसङ्कटे । “पित्ते विरेचनं युञ्ज्यादामोद्भूते गदे तथा । उदरे च तथा- ध्माने कोष्ठशुद्धौ विशेषतः । दोषाः कदाचित् कुप्यन्ति जिता लङ्घनपाचनैः । शोधनैः शाधिता ये तु न तेषा पुनरुद्भवः । बालो वृद्धो मृशं स्निग्धः क्षतक्षीणो भया- न्वितः । श्रान्तस्तृषार्त्तः स्थूलश्च गर्भिणी च नवज्वरो । नवप्रसूता नारी च मन्दाग्निश्च मदात्ययी । शल्यार्दि- तश्च रूक्षश्च न विरेच्या विजानता । जीर्णज्वरी गर- व्याप्तो वातरोगी भगन्दरी । अर्शःपाण्डूदरग्रन्धि हृद्रोगारुचिपीडिताः । योनिरोगप्रमेहार्त्तो गुल्म- प्लीहव्रणार्दितः । विद्रधिच्छर्दिविस्फोटविसू चीकुष्ठ- संयुताः । कर्णनासाशिरोवक्त्रगुदमेढ्रामयान्विताः । प्ली- हशोथाक्षिरोगार्त्ताः कृमिक्षारानिलार्दिताः । शू- लिनो मूत्रघातार्त्ता विरेकार्हा नरा मताः । बहुपित्तो मृदुः प्रोक्तो बहुश्लेष्मा च मध्यमः । वहुवातः क्रूर- कोष्ठो दुर्विरेच्यः स कथ्यते । मृद्वी मात्रा मृदौ काष्ठे मध्यकोष्ठे च मध्यमा । क्रूरे तीक्ष्णा मता द्रव्यैर्मृदु मध्यमतीक्ष्णकैः । मृदुर्द्राक्षापयश्चञ्चुतैलैरपि । विरे- च्यते । मध्यमस्त्रिवृतातिक्ताराजवृक्षैर्विरेच्यते । क्रूरः स्रुक्पयसा हेमक्षीरीदन्तीफलादिभिः” । चञ्चुतैलम् एरण्डतैलम् । राजवृक्षः (वनवहेरा) हेमक्षीरी (चोक) दन्तीफलम् वृहद्दन्तीफलम् जयपालेति प्रसिद्धम् “मात्रोत्तमा विरेकस्य त्रिंशद्वेगैः कफान्तकः । वेगैर्विंशतिभिर्मध्या हीनोक्ता दशवेगिका । द्विपलं श्रेष्ठमाख्यातं मध्यमं च पलं भवेत् । पलार्द्धञ्च कषा- याणां कनीयस्तु विरेचनम् । कल्कमोदकचूर्णानां कर्ष- मध्वाज्यलेहतः । कर्षद्वयं पलं वापि वयोरोगाद्यपे- क्षया । पित्तोत्तरे त्रिवृच्चूर्णं द्राक्षाक्वाथादिभिः पिवेत् । त्रिफलाक्वाथगोमूत्रैः पिवेद्व्योषं कफार्दितः । त्रि- वृत्सेन्धवशुण्ठीनां चूर्णमम्लैः पिवेन्नरः । वातार्दितो विरेकाय जाङ्गलानां रसेन वा । एस्ण्डतैलं त्रिफला- क्वाथेन द्विगुणेन वा । युक्तं पौतं पयोभिर्वा न चि- रेण विरेच्यते” । शोघ्रमेव विरेच्यत इत्यर्थः “त्रिवृता कौटजं वीजं पिप्पलीविश्वभेषजम् । समृद्वीकारस क्षौद्रं वर्षाकाले विरेचनम् । त्रिवृद्दुरालभामुस्तशर्क- रोदीच्यचन्दनम् । द्राक्षाम्बुना सयष्ट्याह्वशीतलञ्च घनात्यये” । उदोच्याम्बाला घनात्यये शरदि । “पिप्पलीं नागरं सिन्धुं श्यामां त्रिवृतया सह । लिह्यात् क्षौद्रेण शिशिरे वसन्ते च विरेचनम्” । श्यामा (कृष्णासाण्ड) (त्रि- वृता शर्करा तुल्या ग्रीष्मकाले विरेचनम् । अभयामरिचं शुण्ठीविडङ्गामलकानि च । पिप्पली पिप्पलीमूल त्वक्पत्रं मुस्तमेव च । एतानि समभागानि दन्ती तु त्रिगुणा भवेत् । त्रिवृताष्टगुणा ज्ञेया षड्गुणा चात्र शर्करा । भधुना मोदकान् कृत्वा कर्षमात्रान् प्रमाणतः । एकैकं भक्षयेत्प्रातः शीतञ्चानु पियेज्जलम् । तावद्विरे- च्यते जन्तुर्यावदुष्णं न सेवते । पानाहारविहारेषु भवेन्निर्यन्त्रणः सदा । विषमज्वरमन्दाग्निपाण्डुकास भगन्दरान् । पृष्ठपार्श्वोरुजघनजङ्घादररुजं जयेत् । स्नेहाभ्यङ्गञ्च रोषं च दिनमेकं सुधीस्त्र्यजेत् । सततं शीलनादेव पलितानि प्रणाशयेत् । अभया मोदका ह्येते रसायनपराः स्मृताः” । इति अभयादिमोदकः “पीत्वा विरेचनं शीतजलैः संसिच्य चक्षुषी । सुगन्धि किञ्चिदाघ्राय ताम्बूलं शीलयेद् बुधः । निर्वातस्थो न वेगांश्च धारयेन्न शयीत च । शीताम्बु न स्पृशेत् क्वापि कोष्णनीरं पिबेन्मुहुः । वलासौषधपित्तानि वायुर्वान्ते यथा व्रजेत् । रेकात्तथा मलं पित्तं भेषजञ्च कफो व्र- जेत् । दुर्विरिक्तस्य नाभेस्तु स्तब्धता कुक्षिशूलरुक् । पुरीषवातसङ्गश्च कण्डूमण्डलगौरवम् । विदाहोऽरु- चिराध्मानं भ्रमश्छर्दिश्च जायते । तं पुनः पाचनैः स्नेहैः पक्त्वा स्निग्धन्तु रेचयेत् । तेनास्योपद्रवा यान्ति दीप्ताग्नेर्लघुता भवेत् । विरेकस्यातियोगेन मूर्च्छा भ्रंशो गुदस्य च । शूलं कफातियोगः स्यान्मांसधारण सन्निभम् । मेदोनिभञ्जलाभासं रक्तञ्चापि विरेच्यते । तस्य शीताम्बुभिः सिक्त्वा शरीरं तण्डुलाम्बुभिः । मधुमिश्रैस्तथा शीतैः कारयेद्वमनं मृदु । सहकार- त्वचः कल्को दध्रा सौवीरकेण वा । पिष्ट्वा नाभिप्रले- पेन हन्त्यतीसारमुल्वणम् । सौवीरं तु यवैरामैः प- क्वैर्वा निस्तुषैः कृतैः” । सौवीरं सन्धानम् “अजाक्षीरं रसञ्चापि वैष्किरं हारिणं तथा । शालिमिः षष्टिकै- स्तुल्यैर्मसूरैर्वापि भोजयेत् । वर्त्तिकालावविकिरक- पिञ्जलकतित्तिराः । चकोरक्रकराद्याश्च विष्किराः समु- दाहृताः” । कपिञ्जल इति ख्यातो लोके कविशति- त्तिरः । क्रकरः । (कराट) इति लोके । हरिणस्ता- म्रवर्णः मृगः । “शीतः सग्राहिभिर्द्रव्यैः कुर्य्यात् सं- ग्रहणं भिषक् । लाघवे मनसस्तुष्टावनुलोमङ्गतेऽनिले । सुविरिक्तं नरं ज्ञात्वा पाचनं पाययेन्निशि । इन्द्रि- याणां बलं बुद्धेः प्रसादो वह्निदीप्तता । धातु स्थैर्य्यं वयस्थैर्य्यम्भवेद्रेचनसेवनात् । प्रतापसेवां शीताम्बु स्नेहाभ्यङ्गमजीर्णताम् । व्यायामं मैथुनञ्चैव न सेवेत विरेचितः । शालिपष्टिकमुद्गाद्यैर्यवागूम्भोजयेत् कृताम् । जङ्घालविष्किराणां वा रसैः शाल्योदनं हितम् । राजीवः पृषतश्चैव जङ्घालाः सरभादयः” । विरेचयति वि + रिच—णिच्—ल्यु । २ पीलुवृक्षे पु० राजनि० । २ भेदक- मात्रे त्रि० । ण्वुल् विरेचक तत्रार्थे त्रि० ।
शब्दकल्पद्रुमः
विरेचनं || क्ली (वि + रिच + ल्युट् ।)
विरेकः । इति शब्दरत्नावली ॥ तत्कारकौषधं यथा, —
“हरीतकी समगुडा मधुना सह पेषिता । विरेचनकरी रुद्र भवतीति न संशयः ॥ त्रिफला चित्रकं चित्रं तथा कटुकरोहिणी । ऊरुस्तम्भहरो ह्येष उत्तमन्तु विरेचनम् ॥” अपि च । “त्रिफला वदरं द्राक्षा पिप्पली च विरेचकृत् । हरीतकी सोष्णनीरा लवणञ्च विरेचकृत् ॥” इति गारुडे १८७ । १९९ अध्यायौ ॥ * ॥
अन्यच्च । अथ विरेचनविधिः । “स्निग्धस्विन्नाय वान्ताय दद्यात् सम्यग्विरेचनम् । अवान्तस्य त्वधःस्रस्तो ग्रहणीं छादयेत् कफः ॥ मन्दाग्निगौरवं कुर्य्याज्जनयेद्वा प्रवाहिकाम् । अथवा पाचनैरामं वलासं परिपाचयेत् । अन्यदात्ययिके कार्य्ये शोधनं शीलयेद्बुधः ॥” आत्ययिके प्राणसङ्कटे । “पित्ते विरेचनं युञ्यादामोद्भूते गदे तथा । उदरे च तथाध्माने कोष्ठशुद्धौ विशेषतः ॥ दोषाः कदाचित् कुप्यन्ति जिता लङ्घनपाचनैः । शोधनैः शोधिता ये तु न तेषां पुनरुद्भवः ॥ बालो वृद्धो भृशं स्निग्धः क्षतक्षीणो भयान्वितः । श्रान्तस्तृषार्त्तः स्थूलश्च गर्भिणी च नवज्वरी ॥ अधोगरक्तपित्ती च न विरेच्या विजानता । नवप्रसूता नारी च मन्दाग्निश्च मदात्ययी ॥ शल्यार्दितश्च रूक्षश्च न विरेच्या विजानता । जीर्णज्वरी गरव्याप्तो वातरक्ती भगन्दरी ॥ अर्शःपाण्डूदरग्रन्थिहृद्रोगारुचिपीडिताः । योनिरोगप्रमेहार्त्तगुल्मप्लीहव्रणार्द्दिताः ॥ विद्रधिच्छर्द्दिविस्फोटविसूचीकुष्ठसंयुताः । कर्णनासाशिरोवक्त्रगुदमेढ्रामयान्विताः ॥ प्लीहशोथाक्षिरोगार्त्ताः कृमिक्षारानलार्द्दिताः । शूलिनो मूत्रघातार्त्ता विरेकार्हा नरा मताः ॥ बहुपित्तो मृदुः प्रोक्तो बहुश्लेष्मा च मध्यमः । बहुवातः क्रूरकोष्ठो दुर्व्विरेच्यः स कथ्यते ॥ मृद्वी मात्रा मृदौ कोष्ठे मध्यकोष्ठे च मध्यमा । क्रूरे तीक्ष्णा मता द्रव्यैर्मृदुमध्यामतीक्ष्णकैः ॥ मृदुर्द्राक्षापयश्चञ्चुतैलैरपि विरिच्यते । मध्यमस्त्रिवृतातिक्ताराजवृक्षैर्व्विरिच्यते । क्रूरः स्रुक्पयसा हेमक्षीरीदन्तीफलादिभिः ॥” चञ्चुतैलमेरण्डतैलम् । राजवृक्षः धनवहेरा । हेमक्षीरी चोकम् । दन्तीफलं बृहद्दन्तीफलं जयपाल इति प्रसिद्धम् । “मात्रोत्तमा विरेकस्य त्रिंशद्वेगैः कफात्मिका । वेगैर्व्विंशतिभिर्म्मध्या हीनोक्ता दशवेगिका ॥ द्विपलं श्रेष्ठमाख्यातं मध्यमञ्च पलं भवेत् । पलार्द्धञ्च कषायाणां कनीयस्तु विरेचनम् ॥ कल्कमोदकचूर्णानां कर्षमध्वाज्यलेहतः । कर्षद्वयं पलं वापि वयोरोगाद्यपेक्षया ॥ पित्तोत्तरे त्रिवृच्चूर्णं द्राक्षाक्वाथादिभिः पिबेत् । त्रिफलाक्वाथगोमूत्रैः पिबेत् व्योषं कफार्द्दितः ॥ त्रिवृत्सैन्धवशुण्ठीनां चूर्णमम्लैः पिबेन्नरः । वातार्द्दितो विरेकाय जाङ्गलानां रसेन वा ॥ एरण्डतैलं त्रिफलाक्वाथेन द्बिगुणेन वा । युक्तं पीतं पयोभिर्व्वा न चिरेण विरिच्यते ॥” शीघ्रमेव विरिच्यत इत्यर्थः । “त्रिवृता कोटजं बीजं पिप्पली विश्वभेषजम् । समृद्वीकारसं क्षौद्रं वर्षाकाले विरेचनम् ॥ त्रिवृद्दुरालभामुस्तशर्करोदीच्यचन्दनम् । द्राक्षाम्बुना सपुष्पाह्वं शीतलं च घनात्यये ॥” उदीच्यं बाला । घनात्यये शरदि । “पिप्पली नागरं सिन्धुश्यामात्रिवृतषा सह । लिह्यात् क्षौद्रेण शिशिरे वसन्ते च विरे- चनम् ॥” श्यामा कृष्णसाउ । “त्रिवृता शर्करातुल्या ग्रीष्मकाले विरेचनम् । अभया मरिचं शुण्ठीविडङ्गामलकानि च ॥ पिप्पली पिप्पलीमूलं त्वक्पत्रं मुस्तमेव च । एतानि समभागानि दन्ती तु द्विगुणा भवेत् ॥ त्रिवृताष्टगुणा ज्ञेया षड्गुणा वात्र शर्करा । मधुना मोदकान् कृत्वा कर्षमात्रान् प्रमाणतः ॥ एकैकं भक्षयेत् प्रातः शीतञ्चानुपिबेज्जलम् ॥ तावद्विरिच्यते जन्तुर्यावदुष्णं न सेवते । पानाहारविहारेषु भवेन्निर्यन्त्रणः सदा ॥ विषमज्वरमन्दाग्निपाण्डुकासभगन्दरान् । दुर्नामकुष्ठयक्ष्मार्शोगलगण्डोदरभ्रमान् ॥ विदाहप्लीहमेहांश्च यक्ष्माणं नयनामयान् । वातरोगांस्तथाध्मानं मूत्रकृच्छ्राणिचाश्मरीम् ॥ पृष्ठपार्श्वोरुजघनजङ्घोदररुजं जयेत् । सततं शीलनादेषां पलितानि प्रणाशयेत् । अभया मोदका ह्येते रसायनवराः स्मृताः ॥” अभयामोदको रसायनः ॥ * ॥
“पीत्वा विरेचनं शीतजलैः संसिच्य चक्षुषी । सुगन्धि किञ्चिदाघ्राय ताम्बूलं शीलयेद्वरम् ॥ निर्व्वातस्थो न वेगांश्च धारयेन्न शयीत च । शीताम्बु न स्पृशेत् क्वापि कोष्णनीरं पिबेन्मुहुः ॥ बलासौषधपित्तानि वायुर्वान्ते यथा व्रजेत् । रेकात्तथा मलं पित्तं भेषजं च कफो व्रजेत् ॥ दुर्विरिक्तस्य नाभेस्तु स्तब्धता कुक्षिशूलरुक् । पुरीषवातसङ्गश्च कण्डूमण्डलगौरवम् ॥ विदाहोऽरुचिराध्मानं भ्रमश्छर्दिश्च जायते । तं पुनः पाचनैः स्नेहैः पक्त्वा संस्निह्य रेचयेत् ॥ तेनास्योपद्रवा यान्ति दीप्ताग्निर्लघुता भवेत् । विरेकस्यातियोगेन मूर्च्छा भ्रंशो गुदस्य च ॥ शूलं कफातियोगः स्यान्मांसधारणसन्निभम् । मेदोनिभं जलाभासं रक्तञ्चापि विरिच्यते ॥ तस्य शीताम्बुभिः सिक्त्वा शरीरं तण्डुलाम्बुभिः । मधुमिश्रैस्तथा शीतैः कारयेद्वमनं मृदु ॥ सहकारत्वचः कल्को दध्ना सौवीरकेण वा । पिष्टो नाभिप्रलेपेन हन्त्यतीसारमुल्वणम् ॥ सौवीरन्तु यवैरामैः पक्वैर्व्वा निस्तुषीकृतम् ॥” सौवीरं सन्धानम् । “आजं क्षीरं रसञ्चापि वैष्किरं हारिणं तथा ॥ शालिभिः षष्टिकैस्तुल्यं मसूरैर्व्वापि भोजयेत् । वर्त्तिकालावविकिरकपिञ्जलकतित्तिराः ॥ चकोरक्रकराद्याश्च विष्किराः समुदाहृताः । कपिञ्जल इति ख्यातो लोके कपिशतित्तिरः ॥” क्रकरः कएर इति लोके । हरिणस्ताम्रवर्ण- मृगः । “शीतैः संग्राहिभिर्द्रव्यैः कुर्य्यात् संग्रहणं भिषक् । लाघवे मनसन्तुष्टावनुलोमं गतेऽनिले ॥ सुविरिक्तं नरं ज्ञात्वा पाचनं पाययेन्निशि । इन्द्रियाणां बलं बुद्धेः प्रसादो वह्निदीप्तता ॥ धातुस्थैर्य्यं वयःस्थैर्य्यं भवेद्रेचनसेवनात् । प्रवातसेवां शीताम्बु स्नेहाभ्यङ्गमजीर्णताम् ॥ व्यवायं मैथुनं चैव न सेवेत विरेचितः । शालिषष्टिकमुद्गाद्यैर्यवागूं भोजयेत् कृताम् ॥ जङ्घालविष्किराणां वा रसैः शाल्योदनं हितम् । हरिणैणकुरङ्गर्त्यवातायुमृगमातृकाः । राजीवः पृषतश्चैव जङ्घाला सरभादयः ॥” इति भावप्रकाशः ॥
शब्दकल्पद्रुमः
विरेचनः || पुं, (विशेषेण रेचयतीति । वि + रिच् + णिच् + ल्युः ।)
पीलुवृक्षः । इति राज- निर्घण्टः ॥ (विरेचके, त्रि । यथा, सुश्रुते । चिकित्सितस्थाने २४ अध्याये । “तेजनं त्वग्गतस्याग्नेः सिरामुखविरेचनम् ॥”)