संस्कृत-शब्दकोशः

विरोक विरोचनसुत

विरोचन

वाचस्पत्यम्

विरोचन ||‍ पु० वि + रुच—युच् । १ सूर्य्ये २ अर्कवृक्षे अमरः । ३ बलिपितरि प्रह्लादतनयेऽसुरभेदे ४ चन्द्रे ५ वह्नौ च मेदि० । विरोचयति वि + रुच—णिच्—ल्यु । ६ रोहितकवृक्षे ७ श्योनाकवृक्षे ८ घृतकरञ्जे च पु० राजनि० । ९ रुचि- कारके त्रि० ।


शब्दकल्पद्रुमः

विरोचनः || पुं, (विशेषेण रोचते इति । वि + रुच् + “अनुदात्तेतश्च हलादेः ।” ३ । २ । १४९ । इति युच् ।)
सूर्य्यः । (यथा, महाभारते । ३ । ३ । ६३ । “दिवाकरः सप्तसप्तिर्धामकेशी विरोचनः ॥”)
अर्कवृक्षः । इत्यमरः ॥ प्रह्लादतनयः । (यथा, महाभारते । १ । ६५ । १९ । “प्रह्लादस्य त्रयः पुत्त्राः ख्याताः सर्व्वत्र भारत । विरोचनश्च कुम्भश्च निकुम्भश्चेति भारत ॥”)
अग्निः । चन्द्रः । इति मेदिनी ॥ (यथा, महाभारते । ९ । ३५ । ५३ । “तासां तद्वचनं श्रुत्वा दक्षः सोममथाब्रवीत् । समं वर्त्तस्व भार्य्यासु मा त्वां शप्से विरोचन ! ॥” रोहितकवृक्षः । श्योनाकप्रभेदः । घृतकरञ्जः । इति राजनिर्घण्टः ॥ (दीप्तिशालिनि, त्रि । यथा, महाभारते । १२ । ३४३ । ३४ । “तेजसाभ्यधिकौ सूर्य्यात् सर्व्वलोकविरो- चनात् ॥”)



Correction: