शब्दकल्पद्रुमः
विरोधिनी || स्त्री (विरुणद्धि या । वि + रुध + णिनि । ङीप् ।)
विरोधकारिका । यथा, —
“विरोधं कुरुते चान्या दम्पत्योः प्रीयमाणयोः । बधूनां सुहृदां पित्रोः पुत्त्रैः सारणिकैश्च या । विरोधिनी सा तद्रक्षां कुर्व्वीत बलिकर्म्मणा ॥” इति मार्कण्डेयपुराणे दुःसहवंशोत्पत्तिः ॥