संस्कृत-शब्दकोशः

विरोधिनी विरोधोक्ति

विरोधिन्

वाचस्पत्यम्

विरोधिन् ||‍ पु० वि + रुध—णिनि । १ रिपौ अमरः । पधि संवत्सरमध्ये “जायते मानुषे कष्टं विरोधिनि न संशयः” इत्युक्तलक्षणे २ वत्सरभेदे च । ३ विरोधकारके त्रि० ।


शब्दकल्पद्रुमः

विरोधी || [न्] पुं, (विरुणद्धीति । वि + रुध + णिनि ।)
शत्रुः । इति हलायुधः ॥ (यथा, मनुः । ४ । १७ । “सर्व्वान् परित्यजेदर्थान् स्वाध्यायस्य विरो- धिनः ॥” विरोधोऽस्त्यस्मिन्निति । विरोध + इनिः ।)
प्रभ- वादिषष्टिसंवत्सरान्तर्गतत्रयोविंशवर्षम् । यथा, भविष्यपुराणे । भैरव उवाच । “अनग्निप्रबला लोका धान्यौषधिप्रपीडनम् । जायते मानुषे कष्टं विरोधिनि न संशयः ॥” इति ज्योतिस्तत्त्वम् ॥ विरोधविशिष्टे, त्रि । (यथा, कुमारे । ५ । १७ । “विरोधिसत्त्वोज्झितपूर्ब्बमत्सरं द्रुमैरभीष्टप्रसवार्च्चितातिथि ॥”)



Correction: