वाचस्पत्यम्
विल || स्तृतौ तु० पर० सक० सेट् । विलति अवेलीत् ।
शब्दकल्पद्रुमः
वि(बि)लं || क्ली (विल + कः ।)
छिद्रम् । इत्यमरः ॥ (यथा, महाभारते । १ । १४९ । १७ । “पाण्डवाश्चापि ते सर्व्वे सह मात्रा सुदुःखिताः । विलेन तेन निर्गत्य जग्मुर्द्रुतमलक्षिताः ॥”)
गुहा । इति मेदिनी ॥ (यथा, कुमारे । ६ । ३९ । “जितसिंहभया नागा यत्राश्वा विलयोनयः । यक्षाः किंपुरुषाः पौरा योषितो वनदेवताः ॥”)
शब्दकल्पद्रुमः
वि(बि)लः || पुं, (उच्चैःश्रवा हयः । इति मेदिनी ॥ वेतसः । इति शब्दचन्द्रिका ॥
शब्दकल्पद्रुमः
विल || श स्तुतौ । इति कविकल्पद्रुमः ॥ (तुदा०- पर०-सक०-सेट् ।)
स्तुतिरिह आच्छादनम् । श, विलति वस्त्रं लोकः परिदधाति इत्यर्थः । वेलिता । अयं कैश्चिन्न मन्यते । इति दुर्गा- दासः ॥