शब्दकल्पद्रुमः
वि(बि)लकारी || [न्] पुं, (विलं करोतीति । कृ + णिनिः ।) मूषकः । इति राजनिर्घण्टः ॥ गर्त्त- कारके, त्रि ॥