वाचस्पत्यम्
विलक्षण || त्रि० विशिष्टं लक्षणमस्य प्रा० ब० । १ विभिन्ने जटा० २ विशेषणयुक्तं च । ३ निष्प्रयोजनस्थितौ च न० भागुरिः ४ दानार्थं कल्पितकाञ्चनपुरुषमूर्त्तियुतशय्याभेदे स्त्री । “अशौचान्तात् द्वितीयेऽह्नि शय्या दद्यात् विलक्षणाम् । काञ्चनं पुरुषं तद्वत् फलपुष्पसमन्वितम् । संपूज्य द्विज- दाम्पत्यं नानास्तरणभूषणैः” शु० त० मत्स्यपु० ।
शब्दकल्पद्रुमः
विलक्षणं || क्ली (विगतं लक्षणं आलोचनं यत्र ।)
हेतुशून्यास्था । निष्प्रयोजनस्थितिः । यथा, —
“विलक्षणं मतं स्थानं यद्भवेन्निष्प्रयोजनम् ॥” इति भागुरिः । इत्यमरभरतौ ॥ (यथा, भागवते । १० । ७० । ३८ । “यद्विद्यमानात्मतयावभासते तस्मै नमस्ते स्वविलक्षणात्मने ॥ * ॥
)
शब्दकल्पद्रुमः
विलक्षणः || त्रि (विभिन्नं लक्षणं यस्य ।)
भिन्नः । इति जटाधरः ॥ (यथा, भागवते । ५ । ६ । ६ । “अथैवमखिललोकपालसमो विलक्षणैर्जड- वदभूतवेशभाषाचरितैरविलक्षितभगवत्प्रभाव इति ॥” * ॥
यथा च भाषापरिच्छेदे । ११४ । “अस्मात् पृथगिदं नेति प्रतीतिर्हि विल- क्षणा ॥” विशिष्टं लक्षणं यस्याः ।)
विशेषलक्षणयुक्तः । यथा, मत्स्यपुराणे । “अशौचान्ताद्दितीयेऽह्नि शय्यां दद्याद्विल- क्षणाम् । काञ्चनं पुरुषं तद्वत् फलपुष्पसमन्वितम् ॥ संपूज्य द्विजदाम्पत्यं नानाभरणभूषणैः । वृषोत्सर्गश्च कर्त्तव्यो देया च कपिला शुभा ॥” द्विजदम्पतीं पूजयित्वा काञ्चन प्रेतप्रतिकृतिरूपं पुरुषं फलवस्त्रयुतं शय्यायामारोप्य भूषित- द्विजदम्पतीभ्यां शय्यां दद्यात् । इति शुद्धि- तत्त्वम् ॥