वाचस्पत्यम्
विलग्न || त्रि० विशेषेण लग्नं लवज—क्त तस्य नः जस्य गः । १ संलग्ने मेदि० । “मध्येन सा वेदि विलग्नमध्या” कुमा० २ मध्यभागे हेमच० । ३ कटौ अमरः । ४ उदितमेषादि राशौ च न० “गोचरे वा विलग्ने वा” इति ज्योतिषम् ।
शब्दकल्पद्रुमः
विलग्नं || क्ली (विशेषेण लग्नम् ।)
मध्यः । यथा, —
“मध्योऽवलग्नं विलग्नं मध्यमोऽथ कटः कटिः ॥” इति हेमचन्द्रः ॥ जन्मलग्नम् । यथा, —
“गोचरे वा विलग्ने वा ये ग्रहा रिष्टसूचकाः । पूजयेत्तान् प्रयत्नेन पूजिताः स्युः शुभावहाः ॥ गोचरे स्वराश्यपेक्षया यदा कदापि । विलग्ने जन्मलग्ने । इति संस्कारतत्त्वम् ॥ मेषादिलग्न- मात्रम् । यथा, —
“शुभग्रहार्कवारे च मृदुक्षिप्रध्रुवेषु च । शुभराशिविलग्ने च शुभं शान्तिकपौष्टिकम् ॥” इति दीपिका ॥ संलग्ने, त्रि । यथा, —
“विलग्नं न स्त्रियां मन्ये त्रिषु स्याल्लग्नमात्रके ॥” इति मेदिनी ॥