संस्कृत-शब्दकोशः

विलम्भ विलला

विलय

वाचस्पत्यम्

विलय ||‍ पु० वि + ली—अच् । १ प्रलये शब्दर० २ नाशे च ।


शब्दकल्पद्रुमः

विलयः || पुं, (विशेषेण लीयन्ते पदार्था अस्मि- न्निति । वि + ली + “एरच् ।” इत्यच् ।)
प्रलयः । इति शब्दरत्नावली ॥ (यथा, भाग- वते । ७ । ९ । ३२ । “नस्येदमात्मनि जगद्विलयाम्बुमध्ये शेषे त्मना निजसुखानुभवो निरीहः ॥” विनाशः । यथा, माघे । ९ । १७ । “दिवसोऽनुमित्रमगमद्विलयं किमिहास्यते वत मयाबलया ॥”)



Correction: