संस्कृत-शब्दकोशः

विलाल विलासमन्दिर

विलास

शब्दकल्पद्रुमः

विलासः || पुं, (वि + लस + घञ् ।)
हावभेदः । इत्यमरः ॥ (यथा, कुमारे । ५ । १५ । “लतासु तन्वीषु विलासचेष्टितं विलोलदृष्टं हरिणाङ्गनासु च ॥”)
लीला । इति मेदिनी ॥ (यथा, भागवते । ३ । २५ । ३५ । “तैर्दर्शनीयावयवैरुदार- विलासहासेक्षितवामसूक्तैः ॥”)
“स्त्रीणां विलासादयः शृङ्गारभावजाः क्रिया हावशब्देनोच्यन्ते । प्रियसमीपगमने यः स्थाना- सनगमनविलोकनेषु विकारोऽकस्माच्च क्रोध- स्मितचमत्कारमुखविकूननं स विलासः । तथा च । ‘यो वल्लभां चानुगतो विकारो गत्यासनस्थानविलोकनेषु । तथा स्मृतं क्रोधचमत्कृती च विकूननञ्चास्यगतं विलासः ॥’ तथान्यत्र । ‘तात्कालिको विशेषस्तु विलासोऽङ्गक्रियादिषु ।’ तात्कालिको दयितालोकनादिभवः ।” इति भरतः ॥ * ॥
अपि च । “गतिस्थानासनादीनां मुखनेत्रादिकर्म्मणाम् । तात्कालिकन्तु वैशिष्ट्यं विलासः प्रियसङ्गजम् ॥” इत्युज्ज्वलनीलमणिः ॥ अन्यच्च । “यद्रूपं तदभेदेन स्वरूपेण विराजते । आकृत्यादिभिरन्यादृक् स तदेकात्मरूपकः । स विलासः स्वांश इति धत्ते भेदद्वयं पुनः ॥” तत्र विलासः । “स्वरूपमन्याकारं तत्तस्य भाति विलासतः । प्रायेणात्मसमं शक्त्या स विलासो निगद्यते ॥ परमव्योमनाथस्तु गोविन्दस्य यथा स्मृतम् । परमव्योमनाथस्य वासुदेवश्च यादृशः ॥” स्वांशः । “तादृशो न्यूनशक्तिं यो व्यनक्ति स्वांश ईरितः । सङ्कर्षणादिर्मत्स्यादिर्यथा तत्तत् स्वधामसु ॥” इति भागवतामृतम् ॥



Correction: