शब्दकल्पद्रुमः
विलासी || [न्] पुं, (विलासोऽस्यास्तीति । विलास + इनिः ।)
भोगी । व्यालः । (उभयार्थे प्रमाणं यथा, कुट्टनीमते । १८ । “तस्यां खगपतितनुरिव विलासिनां हृदय- शोकसंजननी ॥” “विले आसत इति विलासिनः सर्पाः पक्षे विल- सनशीला भोगिनः ।” इति तट्टीका ॥ * ॥
)
कृष्णः । अग्निः । चन्द्रः । इति मेदिनी ॥ स्मरः । हरः । इति शब्दरत्नावली ॥ (विलास- शीले, त्रि । यथा, रघुः । ९ । ४३ । “परभृताविरुतैश्च विलासिनः स्मरवलैरवलैकरसाः कृताः ॥”)