वाचस्पत्यम्
विलीन || त्रि० वि लीं—क्त । १ प्राप्तद्रवीभावे घृतादौ, अमरः । २ विश्लिष्टे ३ नष्टे च ।
शब्दकल्पद्रुमः
विलीनः || त्रि (वि + ली + क्तः ।)
प्राप्तद्रवीभाव- घृतादिः । तत्पर्य्यायः । विद्रुतः २ द्रुतः ३ । इत्यमरः ॥ विश्लिष्टः । विशेषेण लीनः । यथा, —
“करादस्य भ्रष्टे ननु शिखरिणी दृश्यति शिशो- र्विलीनाः स्मः सत्यं नियतमवधेयं तदखिलैः । इति त्रस्यद्गोपानुचितनिभृतालापजनित- स्मितं बिभ्रद्देवो जगदवतु गोवर्द्धनधरः ॥” इति छन्दोमञ्जरी ॥