वाचस्पत्यम्
विलेपन || न० विलिप्यतेऽनेन करणे ल्युट् । गात्रानुसेपनद्रव्यं १ पिष्ट २ घृष्टे वा चन्दनकुङ्कुमादौ । कर्मणि ल्युट् ङीप् । ३ यवाग्वां ४ सुवेशायां स्त्रियाञ्च स्त्री० मेदि० ।
शब्दकल्पद्रुमः
विलेपनं || क्ली (विलिप्यन्तेऽङ्गान्यनेनेति । वि + लिप + ल्युट् ।)
गात्रानुलेपनयोग्यं पिष्टं घृष्टं वा सुगन्धिद्रव्यम् । तत्पर्य्यायः । गात्रानुलेपनी २ वर्त्तिः ३ वर्णकम् ४ । इत्यमरः ॥ “द्वे गात्रानु- लेपनयोग्ये वर्त्तितविलेपने । ‘वर्णकादिद्बयं घृष्टचन्दनादिविलेपने ॥’ इति केचित् । विलिप्यतेऽनेन करणेऽनटि विलेपनम् ।” इति तट्टीकायां भरतः ॥ कुङ्कु- मादिलेपनम् । तत्पर्य्यायः । समालम्भः २ । इति च संकीर्णवर्गे अमरः ॥