शब्दकल्पद्रुमः
विलोपः || पुं, विशेषेण लोपः । विपूर्ब्बलुपधातो- र्घञ्प्रत्ययेन निष्पन्नः ॥ (यथा, कामन्दकीय- नीतिसारे । ५ । ६५ । “काले स्थाने च पात्रे च न हि वृत्तिं विलो- पयेत् । एतद्वृत्तिविलोपेन राजा भवति गर्हितः ॥”)