वाचस्पत्यम्
विलोम || त्रि० विगतं लोम यत्र अच्समा० । १ विपरीते हेमच० २ अरघट्टके न० ३ सर्पे ४ कुक्कुरे पुंस्त्री० स्त्रियां ङीष् ५ वरुणे च पु० मेदि० । ६ व्यस्तत्रैराशिक- फलज्ञापके क्रियाभेदे “व्यस्तविधिर्विलोमे” लीला० । ७ व्युत्क्रमान्विते यथा अकारादिहकारान्तवर्णानां व्युत् क्रमेण हकाराद्यकारान्ततया जपः । सप्तशतीप्रयोगमेदे मार्कण्डेय उवाचेत्यादिकस्य सावर्णिर्भविता मनुरित्यन्तस्य मालामन्त्रस्य व्युत्क्रमेण पाठः ।
शब्दकल्पद्रुमः
विलोमं || क्ली अरघट्टकः । इति मेदिनी ॥
शब्दकल्पद्रुमः
विलोमं || त्रि विपरीतम् । तत्पर्य्यायः । प्रति- कूलम् २ अपसव्यम् ३ अपष्ठुरम् ४ वामम् ५ प्रसव्यम् ६ प्रतीपम् ७ प्रतिलोमम् ८ अपष्ठु ९ । इति हेमचन्द्रः ॥ सव्यम् १० विलोमकम् ११ । इति जटाधरः ॥ (यथा, बृहत्संहितायाम् । ९४ । १२ । “द्रुतमुकुलितदृष्टिः स्वप्नशीलो विलोमो भयकृतहितभक्षी नैकशोऽसृक्छकृच्च ॥”)
शब्दकल्पद्रुमः
विलोमः || पुं, सर्पः । वरुणः । कुक्कुरः । इति मेदिनी ॥