विवक्षा
विवदमान
विवक्षित
शब्दकल्पद्रुमः
विवक्षितः || त्रि वक्तुमिष्टः । सनन्तवचधातोः क्तप्र- त्ययेन निष्पन्नमिदम् । शक्यार्थः । यथा । उपा- देयगतायाः संख्याया विवक्षितत्वं युक्तम् । अनु- पादेयगता संख्या न विवक्षिता । इति माधवा- चार्य्यः । इत्येकादशीतत्त्वम् ॥