शब्दकल्पद्रुमः
विवधः || पुं, (विविधो वधो हननं गमनं वा यत्र ।)
पर्य्याहारः । स तु धान्यतण्डुलादिः । मार्गः । पन्थाः । इत्यमरभरतौ ॥ व्रीहितृणादेः पर्य्या- हरणम् । इति स्वामी ॥ उपरितो बद्धशिक्य- स्कन्धबाह्यकाष्ठम् । वाँक् इति ख्यातम् । इति भानुदीक्षितः ॥ भारः । इति मुकुटधृतविश्वः ॥