संस्कृत-शब्दकोशः

विवधिक विवरण

विवर

वाचस्पत्यम्

विवर ||‍ न० वि + वृ—अच् । १ छिद्रे अमरः २ दोषे च मेदि० ।


शब्दकल्पद्रुमः

विवरं || क्ली (विवृणोतीति । वि + वृ + पचाद्यच् ।)
छिद्रम् । इत्यमरः ॥ (यथा, रघुः । ११ । १८ । “यच्चकार विवरं शिलाघने ताडकोरसि स रामसायकः । अप्रविष्टविषयस्य रक्षसां द्वारतामगमदन्तकस्य तत् ॥”)
दोषः । इति मेदिनी ॥ (यथा, महाभारते । १ । १४१ । १७ । “एकाग्रः स्यादविवृतो नित्यं विवरदर्शकः । राजन्राज्यं सपत्नेषु नित्योद्विग्नः समाचरेत् ॥” अवकाशः । यथा, भागवते । ५ । १० । १२ । “विशेषबुद्धेर्विवरं मबाक् च पश्याम यन्न व्यवहारतोऽन्यत् ॥”)



Correction: