वाचस्पत्यम्
विवर्त्त || पु० वि + वृत—घञ् । १ नृत्ये २ समुदाये ३ अपवर्त्तने वेदान्तोक्ते कारणात् विषमसत्ताकतया उत्पद्यमाने ४ कार्य्ये च । यथा रङ्गात् रजतम् ब्रह्मणो जगत् । वेदान्तिभिः विवर्त्तवाद एवाश्रितः । न परिणामवादः ।
शब्दकल्पद्रुमः
विवर्त्तः || पुं, (वि + वृत् + घञ् ।)
समुदायः । अप- वर्त्तनम् । नृत्यम् । इति विश्वः ॥ (प्रतिपक्षः ॥ यथा, नैषधे । ३ । ६४ । “ईशाणिमैश्वर्य्यविवर्त्तमध्ये लोकेशलोकेशयलोकमध्ये ॥” समवायिकारणविसदृशकार्य्योत्पत्तिः । यथा, सांख्यतत्त्वकौमुद्याम् । “एकस्य सतो विवर्त्तः कार्य्यजातं नतु वस्तु सत् ॥”)