वाचस्पत्यम्
विवस्वत् || पु० वि + वस + क्विप् अस्त्यर्थे मतुप् मस्य वः । १ सूर्य्ये २ अर्कवृक्षे अमरः । ३ अरुणे शब्दर० । ४ देवे च मेदि० ।
शब्दकल्पद्रुमः
विवस्वान् || [त्] पुं, (विशेषेण वस्ते आच्छादय- तीति । वि + वस् + क्विप् । विवस्तेजोऽस्या- स्तीति । विवस् + मतुप् । मस्य वः । “तसौ मत्वर्थे ।” १ । ४ । १९ । इति भत्वादुत्वाभावः ।)
सूर्य्यः । (यथा, क्रिराते । ५ । ४८ । “भवति दीप्तिरदीपितकन्दरा तिमिरसंवलितेव विवस्वतः ॥”)
अर्कवृक्षः । इत्यमरः ॥ देवता । इति मेदिनी ॥ अरुणः । इति शब्दरत्नावली ॥ वैवस्वतमनुः । इत्यजयः ॥ (मनुष्यः । इति निघण्टुः । २ । ३ । २४ ॥ “वस निवासे इत्यस्यात् ‘अन्येभ्योऽपि दृश्यन्ते’ इति विच् । दृशिग्रहणात् भावे भवति । विविधं वसनं विवः । तद्वन्तो विवस्वन्तः । सर्व्वस्यापि मनुष्यस्य यत्किञ्चित् विवसनमस्ति ।” इति तट्टीका ॥ * ॥
परिचरणशीले, त्रि । यथा, ऋग्वेदे । १० । ६५ । ६ । “देवेभ्यो दाशद्धविषा विवस्वते ॥” “हविषा अन्नेन देवान् विवस्वते परिचरते ।” इति तद्भाष्ये सायणः ॥)