विवस्वत्
विवाद
विवाक
वाचस्पत्यम्
विवाक || पु० वि + वच—संज्ञायां कर्त्तरि घञ् । विवेचके प्राग्विवाकशब्दे पृ० दृश्यम् ।
शब्दकल्पद्रुमः
विवाकः || त्रि विवेचनकर्त्ता । यथा, —
“अर्थिप्रत्यर्थिनोर्व्वचनं विरुद्धाविरुद्धं सभ्यैः सह विविनक्ति विवेचयति वा विवाकः ।” इति मिताक्षरा ॥