शब्दकल्पद्रुमः
विवादी || [न्] त्रि, (विवादोऽस्यास्तीति । विवाद + इनिः ।) विवादकर्त्ता । यथा, — “अनुभावी च यः कश्चित् कुर्य्यात् साक्ष्यं विवादिनाम् ॥” इति व्यवहारतत्त्वम् ॥