संस्कृत-शब्दकोशः

विवादिन् विवाहित

विवाह

वाचस्पत्यम्

विवाह ||‍ पु० वि + वह—घञ् । दारपरिग्रहे तज्जनके व्या- पारे च । उद्वाहशब्दे उपयमशब्दे च दृश्यम् । “भार्य्यात्वसम्पादकज्ञानं विवाहः” इति उद्वा० रघु० । भार्य्यात्वस्योपलक्षणतया निवेशः । तेन नान्योन्याश्रयः चरमसंस्कारो विजातीयसंस्कारो वा विवाहः” इत्यन्ये ।


शब्दकल्पद्रुमः

विवाहः || पुं, (विशिष्टं वहनम् । वि + वह + घञ् ।)
उद्वाहः । दारपरिग्रहः । तत्पर्य्यायः । उपयमः २ परिणयः ३ उद्बाहः ४ उपयामः ५ पाणिपीडनम् ६ । इत्यमरः ॥ दारकर्म्म ७ करग्रहः ८ । इति शब्दरत्नावली ॥ पाणि- ग्रहणम् ९ निवेशः १० पाणिकरणम् ११ । इति जटाधरः ॥ स चाष्टविधः । यथा, —
“ब्राह्म्यो विवाह आहूय दीयते शक्त्यलङ्कृता । तज्जः पुनात्युभयतः पुरुषानेकविंशतिम् ॥ यज्ञस्थायर्त्विजे दैवमादायार्षन्तु गोयुगम् । चतुर्द्दशप्रथमजः पुनात्युत्तरजश्च षट् ॥ इत्युक्त्वा चरतां धर्म्मं सह या दीयतेऽर्थिने । सकायः पावयेत्तज्जः षड्वंश्यांश्च सहात्मना ॥ आसुरो द्रषिणादानात् गान्धर्व्वः समयान्मिथः । राक्षसो युद्धहरणात् पैशाचः कन्यकाच्छलात् ॥” इति याज्ञवल्क्यः ॥ * ॥
अपि च । “गृहीतविद्यो गुवरे दत्त्वा च गुरुदक्षिणाम् । गार्हस्थ्यमिच्छन् भूपाल कुर्य्याद्दारपरिग्रहम् ॥ वर्षैरेकगुणां भार्य्यामुद्वहेत्त्रिगुणः स्वयम् । नातिकेशामकेशां वा नातिकृच्छ्रां न पिङ्गलाम् ॥ निसर्गतोऽधिकाङ्गीं वा न्यूनाङ्गीमपि नोद्वहेत् । अविशुद्धां सरोगां वाकुलजां वातिरोगिणीम् ॥ न दुष्टां दुष्टवाचाटां वाङ्गिनीं पितृमातृतः । न श्मश्रुव्यञ्जनवतीं न चैव पुरुषाकृतिम् ॥ न घर्घरस्वरां क्षामवाक्यां काकस्वरां न च । नानिबद्धेक्षणां तद्वद्वृत्ताक्षीं नोद्ब हेद्बुधः ॥ यस्याश्च रोमशे जङ्घे गुल्फौ चैव तथोन्नतौ । कूपौ यस्या हसन्त्याश्च गण्डयोस्ताञ्च नोद्बहेत् ॥ नातिरूक्षच्छविं पाण्डुकरजामरुणेक्षणाम् । आपीनहस्तपादाञ्च न कन्यामुद्वहेद्बुधः ॥ न वामनां नातिदीर्घां नोद्वहेत् संहतभ्रुवम् । न चातिच्छिद्रदशनां न करालमुखीं नरः ॥ पञ्चमीं मातृपक्षाच्च पितृपक्षाच्च सप्तमीम् । गृहस्थश्चोद्वहेत् कन्यां न्यायेन विधिना नृप ॥ ब्राह्म्यो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः । गान्धर्व्वराक्षसौ वान्यौ पैशाचश्चाष्टमोऽधमः ॥ एतेषां यस्य यो धर्म्मो वर्णस्योक्तो मनीषिभिः । कुर्व्वीत दाराहरणं तेनान्यं परिवर्ज्जयेत् ॥ स धर्म्मचारिणीं प्राप्य गार्हस्थ्यं सहितस्तया । समुद्बहेद्ददात्येतत् सम्यगूढं महाफलम् ॥” इति विष्णुपुराणे ३ अंशे १० अध्यायः ॥ * ॥
अन्यच्च । याज्ञवल्क्य उवाच । “शृण्वन्तु मुनयो धर्म्मान् गृहस्थस्य यतव्रताः । गुरवे च धनं दत्त्वा स्नात्वा च तदनुज्ञया ॥ अविप्लुतब्रह्मचर्य्यो लक्षण्यां स्त्रियमुद्बहेत् । अनन्यपूर्व्विकां कान्तामसपिण्डां यवीयसीम् ॥ अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् । पञ्चमात् सप्तमादूर्द्द्वं मातृतः पितृतस्तथा ॥ द्विपञ्चनवविख्यातात् श्रोत्रियाणां महाकुलात् । सवर्णः श्रोत्रियो विद्वान् वरदोषान्वितो न च ॥ यदुच्यते द्विजातीनां शूद्रादारोपसंग्रहः । न तन्मम मतं यस्मात्तत्रायं जायते स्वयम् ॥ तिस्रो वर्णानुपूर्ब्बेण द्बे तथैका यथाक्रमम् । ब्राह्मणक्षत्त्रियविशां भार्य्यां वा शूद्रजन्मनः ॥ ब्राह्मो विवाह आहूय दीयते शक्त्यलङ्कृता । तज्जः पुनात्युभयतः पुरुषानेकविंशतिम् ॥ यज्ञस्थायर्त्विजे दैवमादायार्षस्तु गोयुगम् । चतुर्द्दश प्रथमजः पुनात्युत्तरतश्च षट् ॥ इत्युक्त्वा चरतां धर्म्मं सह या दीयतेऽर्थिने । सकायः पावयेत्तज्जः षड्वंश्यानात्मना सह ॥ आसुरो द्रविणादानात् गान्धर्व्वः समयान्मिथः । राक्षसो युद्धहरणात् पैशाचः कन्यकाच्छलात् ॥ चत्वारो ब्राह्मणस्याद्यास्तथा गान्धर्व्वराक्षसौ । राज्ञस्तथासुरो वैश्ये शूद्रे चान्त्यस्तु गर्हितः ॥ पाणिर्ग्राह्यः सवर्णासु गृह्णीत क्षत्त्रिया शरम् । वैश्या प्रतोदमादद्याद्वेदने चाग्रजन्मनः ॥ पिता पितामहो भ्राता सकुल्यो जननी तथा । कन्याप्रदः पूर्ब्बनाशे प्रकृतिस्थः परः परः ॥ अप्रयच्छन् समाप्नोति भ्रूणहत्यामृतावृतौ । एषामभावे दातॄणां कन्या कुर्य्यात् स्वयंवरम् ॥ सकृत् प्रदीयते कन्या हरंस्तां चौरदण्डभाक् । अदुष्टां हि त्यजन् दण्ड्यः सुदुष्टां हि परि- त्यजेत् ।” इति गारुडे ९५ अध्यायः ॥ * ॥
अपरञ्च । यम उवाच । “कन्यां ये तु प्रयच्छन्ति यथाशक्त्या स्वल- ङ्कृताम् । ब्रह्मदेयां द्विजश्रष्ठ ब्रह्मलोकं व्रजन्ति ते ॥ कन्यादानन्तु सर्व्वेषां दानानामुत्तमं स्मृतम् ॥ महान्त्यपि समृद्धानि गोऽजाविकधनान्यतः । स्त्रीसम्बन्धे दशेमानि कुलानि परिवर्ज्जयेत् ॥ हीनज्ञातिषु पाषण्ड मुने उद्वेगकारिणाम् । छद्मामयसदावाच्यचित्रिकुष्टिकुलानि च ॥ यस्यास्तु न भवेद्भ्राता न च विज्ञायते पिता । नोपयच्छेत तां प्राज्ञः पुत्त्रिकाधर्म्मशङ्कया ॥ चतुर्णामपि वर्णानां प्रेत्य चेह हिताय च । अष्टाविमान् समासेन स्त्रीविवाहान्निबोधत ॥ ब्राह्म्यो दैवस्तथा चार्षः प्राजापत्यस्तथासुरः । गान्धर्व्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः ॥ प्रसाद्य चार्च्चयित्वा च श्रुतशीलवते स्वयम् । दद्यात् कन्यां यथान्यायं ब्राह्म्यो धर्म्मः प्रकी- र्त्तितः ॥ १ ॥ यज्ञे तु वितते सम्यगृत्विजे कर्म्म कुर्व्वते । अलङ्कृत्य तथा दानं दैवो धर्म्मः प्रशस्यते ॥ २ ॥ एकं गोमिथुनं द्वे वा वरादादाय धर्म्मतः । कन्यादानन्तु विधिवदार्षो धर्म्मः स उच्यते ॥ ३ ॥ सहोभौ चरतां धर्म्ममिति चैवानुभाष्य तु । कन्याप्रदानमभ्यर्च्च्य प्राजापत्यो विधिः स्मृतः ॥ ४ ॥ ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः । कन्याप्रदानं स्वाच्छन्द्यादासुरो धर्म्म उच्यते ॥ ५ ॥ इच्छयान्योन्यसंयोगात् कन्यायाश्च वरस्य च । गान्धर्व्वः स तु विज्ञेयो मिथुन्यः कामसञ्चरः ॥ ६ ॥ हत्वा जित्वा च भित्त्वा च प्रसह्य रुदतीं गृहात् । हरणं क्रियते यत्र राक्षसो विधिरुच्यते ॥ ७ ॥ सुप्ता मत्ता रहः कन्या छद्मना नीयते तु या । स पापिष्ठो विवाहानां पैशाचः प्रथितो- ऽष्टमः ॥ ८ ॥ पञ्चानाञ्च त्रयो धर्म्मा द्वावधर्म्मौ द्बिजोत्तम । पैशाचश्चासुरश्चैव न कर्त्तव्यौ कदाचन ॥ चतुर्णामपि वर्णानामेष धर्म्मः सनातनः । पृथग्वा यदि वा मिश्रा कर्त्तव्या नात्र संशयः ॥ कन्यां ये तु प्रयच्छन्ति यथाशक्त्या स्वलङ्कृताम् । विवाहकाले संप्राप्ते यथोक्ते सदृशे वरे । क्रमात् क्रमं क्रतुशतमनुपूर्ब्बं लभन्ति ते ॥ श्रुत्वा कन्धाप्रदानन्तु पितरः प्रपितामहाः । विमुक्ताः सर्व्वपापेभ्यो ब्रह्मलोकं व्रजन्ति ते ॥ ब्राह्येण तु विवाहेन यस्तु कन्यां प्रयच्छति । ब्रह्मलोकं व्रजेच्छीघ्रं ब्रह्माद्यैः पूजितः सुरैः ॥ दिव्येन तु विवाहेन यस्तु कन्यां प्रयच्छति । भित्त्वा द्वारन्तु सूर्य्यस्य स्वर्गलोकञ्च गच्छति ॥ गान्धर्व्वेन विवाहेन यस्तु कन्यां प्रयच्छति । गन्धर्व्वलोकमासाद्य क्रीडते देववच्चिरम् ॥ शुल्कन दत्त्वा यो कन्यां तां पश्चात् सम्यगर्च्चयेत् । स किन्नरैश्च गन्धर्व्वैः क्रीडते कालमक्षयम् ॥ न मन्युं कारयेत् तासां पूज्याश्च सततं गृहे । ब्रह्मदेया विशेषेण ब्राह्मभोज्या सदा भवेत् ॥ कन्यायां ब्रह्मदेयायामभुञ्जन् सुखमश्नुते । अथ भुञ्जति यो मोहात् भुक्त्वा स नरकं व्रजेत् ॥ * अप्रजायाञ्च कन्यायां न भुञ्जीयात् कदाचन । दौहित्रस्य मुखं दृष्ट्वा किमर्थमनुशोचसि ॥ महासत्त्वसमाकीर्णान्नास्ति ते नरकाद्भयम् । तीर्णस्त्वं सर्व्वदुःखेभ्यः परं स्वर्गमवाप्स्यसि ॥” इत्याद्ये वह्निपुराणे तडागवृक्षप्रशंसानामा- ध्यायः ॥ * ॥
विवाहकाले मिथ्यावचने दोषा- भावो यथा, — शर्म्मिष्ठोवाच । “न नर्म्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन् न विवाहकाले । प्राणात्यये सर्व्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥” इति मात्स्ये ३१ अध्यायः ॥ * ॥
विवाहे वर्णनीयानि यथा, —
“विवाहे स्नानशुभ्राङ्गभूषोलूलुत्रयोरवाः । देवी संगीततारेक्षा लाजमङ्गलवर्त्तनम् ॥” इति कविकल्पलतायाम् १ स्तवके ३ कुसुमम् ॥ * ॥
अथ विवाहोक्तदिनानि । तत्राब्दादिशुद्धि- र्यथा, —
“प्रसूत्याधानतः शुद्धिर्विषमेऽब्दे समे क्रमात् । विवाहे योषितां चन्द्रार्केज्यशुद्धिर्नृयोषितोः ॥ सभर्त्तृकक्रियारम्भे भर्त्तुर्गोचरशुद्धितः । यात्रोद्वाहे गर्भकृत्ये स्वशुद्ध्याप्नोति तत् फलम् ॥ प्रारभ्य जन्मसमयात् युवतेर्विवाह- मोजाब्दकेषु मुनयः शुभमादिशन्ति । आधानतः प्रभृतितः समवत्सरेषु प्रोक्तस्तयोर्न शुभदस्तु विलोमवर्षे ॥ * ॥
अयुग्मे दुर्भगा नारी युग्मे च विधवा भवेत् । तस्माद्गर्भान्विते युग्मे विवाहे सा पतिब्रता ॥ मासत्रयादूर्द्ध्वमयुग्मवर्षे युम्मे च मासत्रयमेव यावत् । विवाहशुद्धिं प्रवदन्ति सर्व्वे वात्स्यादयो ज्योतिषि जन्ममासात् ॥ युग्माब्दकेषु युवतेरपि जन्ममासात् मासत्रयं विवहने परमब्दशुद्धिम् । प्राहुः समस्तमुनयो विषमे तु वर्षे मासत्रयादुपरितः खलु जन्ममासात् ॥” * ॥
राजमार्त्तण्डे । “माङ्गल्येषु विवाहेषु कन्यासंवरणेषु च । दश मासाः प्रशस्यन्ते चैत्रपौषविवर्ज्जिताः ॥” कन्यासंवरणे हस्तोदकविधौ । “दम्पत्योर्द्विनवाष्टराशिरहिते दारानुकूले रवौ चन्द्रे चार्ककुजार्किशुक्रवियुते मध्येऽथवा पापयोः । त्यक्त्वा च व्यतिपातवैधृतिदिनं विष्टिञ्च रिक्तां तिथिं क्रूराहायनचैत्रपौषरहिते लग्नांशके मानुषे ॥” * योगविशेषे दोषविशेषानाह रत्नमालायाम् । “कुलोच्छेदो व्यतीपाते परिधे स्वामिघातिनी । वैधृतौ विधवा नारी विषदाहोऽतिगण्डके ॥ व्याघाते व्याधिसं घातः शोकार्त्ता हर्षणे तथा । शूले च व्रणशूलं स्यात् गण्डे रोगभयं तथा ॥ विष्कम्भेऽप्यहिदंशः स्यात् वज्रके मरणं भवेत् । एते वै दारुणाः सर्व्वे दश योगाः प्रकीर्त्तिताः ॥” आश्वलायनः । उदगयने आपूर्य्यमाणे पक्षे कल्याणे नक्षत्रे चौडकर्म्मोपनयनगोदान- विवाहाः । विवाहः सार्व्वकालिक इत्येक इति । “आषाढे धनधान्यभोगरहिता नष्टप्रजा श्रावणे वेश्या भाद्रपदे इषे च मरणं रोगान्विता कार्त्तिके । पौषे प्रेतवती वियोगबहुला चैत्रे मदोन्मादिनी अन्येष्वेव विवाहिता पतिरता नारी समृद्धा भवेत् ॥ हरौ च सुप्ते न च दक्षिणायने तिथौ च रिक्ते शशिनि क्षयं गते ॥ राजग्रस्ते तथा युद्धे पितॄणां प्राणसंशये । अतिप्रौढा च या कन्या नानुकूलं प्रतीक्षते ॥ अतिप्रौढा च या कन्या कुले धर्म्मविरोधिनी । अविशुद्धापि सा देया चन्द्रलग्नबलेन तु ॥ अयनस्योत्तरस्यादौ मकरं याति भास्करः । राशिं कर्कटकं प्राप्य कुरुते दक्षिणायनम् ॥” इति विष्णुपुराणोक्तस्य चूडादावयनस्य परिग्रहः दिनमानादिबोधे तु सिद्धान्तादयनपरिग्रहः ॥ * ॥
सार्व्वकालिक इत्यस्य विषयमाह भुजवलभीमे । “ग्रहशुद्धिमब्दशुद्धिं शुद्धिं मासायनर्त्तुदिव- सानाम् । अर्व्वाक् दशवर्षेभ्यो भुनयः कथयन्ति कन्य- कानाम् ॥ एतत्परन्तु विज्ञेयमङ्गिरोवचनं यथा । कालात्यये च कन्यायाः कालदोषो न विद्यते ॥ मलमासादिकालानां विवाहाद्ये प्रयत्नतः । पुंसः प्रति सदा दोषात् सर्व्वदैव हि वर्ज्ज्यता ॥” कृत्यचिन्तामणौ । “वापीकूपतडागयागगमनक्षौरप्रतिष्ठाव्रतं विद्यामन्दिरकर्णवेधनमहादानं वनं सेवनम् । तीर्थस्नानविवाहदेवभवनं मन्त्रादिदेवेक्षणं दूरेणैव जिजीविषुः परिहरेदस्तं गते भार्गवे ॥” बृहद्राजमार्त्तण्डे । “सर्व्वाणि शुभकर्म्माणि कुर्य्यादस्तं गते सिते । विवाहं मेखलाबन्धं यात्राञ्च परिवर्ज्जयेत् ॥” यात्राञ्चेति चकारो वचनान्तरोक्तप्रातिष्विक- निषिद्धकर्म्मान्तरं समुच्चिनोति । “बाले शुक्रे वृद्धे शुक्रे नष्टे शुक्रे जीवे नष्टे । बाले जीवे वृद्धे जीवे सिंहादित्ये गुर्व्वादित्ये ॥ तथा मलिम्लुचे मासि सुराचार्य्येऽतिचारगे । वापीकूपतडागादिक्रियाः प्रागुदितास्त्यजेत् ॥ अतीचारं गते जीवे वक्रे चैव बृहस्पतौ । कामिनी विधवा प्रोक्ता तस्मात्तौ परिवर्ज्जयेत् ॥ अतीचारं गतो जीवः पूर्ब्बभं नैव गच्छति । समचारेऽपि कर्म्माणि नैव तत्रैव संस्थिते ॥” * ॥
देवलः । “बाले वृद्धे तथैवास्ते कुरुते दैत्यमन्त्रिणि । उद्वाहितायां कन्यायां दम्पत्योरेव नाशनम् ॥ प्रागुद्गतः शिशुरहस्त्रितयं सितः स्यात् पश्चाद्दशाहमिति पञ्चदिनानि वृद्धः । प्राक् पक्षमेव कथितोऽत्र वशिष्ठगर्गै- र्जीवस्तु पक्षमपि वृद्धशिशुर्व्विवर्ज्यः ॥” अत्यन्ताशक्तौ राजमार्त्तण्डः । “बाले वृद्धे च सन्ध्यांशे चतुःपञ्चत्रिवासरान् । जीवे च भार्गवे चैव विवाहादिषु वर्ज्जयेत् ॥ वक्रे चैवातिचारे त्रिदशपतिगुरौ देवपूज्ये च सुप्ते गुर्व्वादित्येऽधिमासे दिवसकररिपौ वाक्पतौ चैत्रपौषे । विष्ट्यां केतूद्गमे वा शरदि सुरगुरौ सिंहसंस्थे मनोज्ञे वर्षादाप्नोति चोढा सुनियतमरणं देवकन्यापि भर्त्तुः ॥” * ॥
शुक्रमधिकृत्य राजमार्त्तण्डे । “बाले च दुर्भगा नारी वृद्धे नष्टप्रजा भवेत् । नष्टे च मृत्युमाप्नोति सर्व्वमेतद्गुरावपि ॥ सिंहे गुरौ परिणीता पतिमात्मानमात्मजान् हन्ति । क्रमशस्त्रिषु पित्रादिषु वशिष्ठगर्गादयः प्राहुः ॥ गुरौ हरिस्थे न विवाहमाहु- र्हारीतगर्गप्रमुखा मुनीन्द्राः । यदा न माघी मघसंयुता स्यात् तदा तु कन्योद्वहनं वदन्ति ॥” अत्रैव माण्डव्यः । “मधाऋक्षं परित्यज्य यदा सिंहे गुरुर्भवेत् । तत्राब्दे कन्यका चोढा सुभगा सुप्रिया भवेत् ॥” हारीतः । “अतीचारं गते जीवे वृषे वृश्चिककुम्भयोः । यज्ञोद्बाहादिकं कुर्य्यात् तत्र कालो न लुप्यते ॥” कृत्यचिन्तामणौ । “अतीचारं गते जीवे वृषे वृश्चिककुम्भयोः । तत्र चोद्वाहिता कन्या संपृणीयात् कुलद्वयम् ॥” सङ्केतकौमुद्यां भीमपराक्रमे । “यदातिचारं सुरराजमन्त्री करोति गोमन्मथमीनसंस्थः । न याति चेद्यद्यपि पूर्ब्बराशिं शुभाय पाणिग्रहणं वशिष्ठः ॥ अतीचारं गते जीवे स्थिरराशौ च संस्थिते । तत्र न लुप्यते कालो वदत्येवं पराशरः ॥ वापीकूपतडागादि निषिद्धं सिंहगे गुरौ । मकरस्थे च तत् कार्य्यं न दोषः काललोपजः ॥” यत्तु । “कन्यावृश्चिकमेषेषु मन्मथे च झषे वृषे । अतिचारेऽपि कर्त्तव्यं विवाहादि बुधैः सदा ॥” इत्येतदमूलं द्बैतनिर्णयेऽप्युक्तम् ॥ * ॥
दीपि- कायाम् । “त्रिकोणजाया धनलाभराशौ वक्रातिचारेण गुरुः प्रयातः । यदा तदा प्राह शुभे विलग्ने हिताय पाणिग्रहणं वशिष्ठः ॥” देवीपुराणम् । “मकरस्थो यदा जीवो वर्ज्जयेत् पञ्चमांशकम् । शेषेष्वपि च भागेषु विवाहः शोभनो मतः ॥” भोजराजः । “यो जन्ममासे क्षुरकर्म्म यात्रां कर्णस्य वेधं कुरुते च मोहात् । नूनं स रोगं धनपुत्त्रनाशं प्राप्नोति मूढो वधबन्धनानि ॥ जातं दिनं दूषयते वशिष्ठ- श्चाष्टौ च गर्गो जवनो दशाहम् । जन्माख्यमासं किल भागुरिश्च चौडे विवाहे क्षुरकर्णवेधे ॥” श्रीपतिसमुच्चये । “स्नानं दानं तपो होमः सर्व्वमङ्गल्यवर्द्धनम् । उद्वाहश्च कुमारीणां जन्ममासे प्रशस्यते ॥” कृत्यचिन्तामणौ । “जन्ममासे च पुत्त्राढ्या धनाढ्या च धनोदये । जन्मभे जन्मराशौ च कन्या हि ध्रुवसन्ततिः ॥” गर्गः । “ज्यैष्ठे मासि तथा मार्गे क्षौरं परिणयं व्रतम् । ज्येष्ठपुत्त्रदुहित्रोश्च यत्नतः परिवर्ज्जयेत् ॥” अत्र ज्येष्ठत्वमादिगर्भजातत्वम् । तथा च । “जन्ममासि न च जन्मभे तथा नैव जन्मदिवसेऽपि कारयेत् । आद्यगर्भभवपुत्त्रकन्ययो- र्ज्यैष्ठमासि न च जातु मङ्गलम् ॥” अत्र जन्ममासादौ पुत्त्रमात्रस्य निषेधः ज्यैष्ठ- मासे तु ज्येष्ठपुत्त्रस्येति विशेषः । “कृत्तिकास्थं रविं त्यक्त्वा ज्यैष्ठे ज्येष्ठस्य कार- येत् । उत्सवेषु च सर्व्वेषु दिनानि दश वर्ज्जयेत् ॥ * ॥
रेवत्युत्तररोहिणीमृगशिरोमूलानुराधामघा- हस्तास्वातिषु तौलिषष्ठमिथुनेषूद्यत्सु पाणिग्रहः । सप्ताष्टान्त्यवहिःशुभैरुडुपतावेकादशद्बित्रिगे क्रूरैस्त्र्यायषडष्टगैर्न तु भृगौ षष्ठे कुजे चाष्टमे ॥” ज्योतिर्व्विहितनक्षत्रात् अधिकं चित्राश्रवणा- धनिष्ठाश्विनीनक्षत्रं पारस्करोक्तं यथा, —
“कुमार्य्याः पाणिं गृह्णीयात् त्रिषु त्रिषूत्तरा- दिषु ॥” उत्तरफल्गुन्यादित्रयोत्तराषाढादित्रयोत्तरभा- द्रपदादित्रयेषु नवसु नक्षत्रेष्वित्यर्थः ॥ * ॥
भीम- पराक्रमे । “पूर्व्वात्रये विशाखायां शिवाद्ये भचतुष्टये । ऊढा चाशु भवेत् कन्या विधवातो विवर्जयेत् ॥ विष्णुभाद्ये त्रिके चित्रे ज्येष्ठायां ज्वलने यमे । एभिर्व्विवाहिता कन्या भवत्येव सुदुःखिता ॥” एवञ्च पारस्करोक्तं यजुर्व्वेदिविषयमापद्विषयं वा बोध्यम् ॥ * ॥
“आद्ये मघाचतुर्भागे नैरृतस्याद्य एव च । रेवत्यन्तचतुर्भागे विवाहः प्राणनाशकः ॥ कर्णवेधे विवाहे च व्रते पुंसवने तथा । प्राशने चाद्यचूडायां विद्धमृक्षं विवर्ज्जयेत् ॥” विद्धर्क्षन्तु । “तिथ्य १५ ङ्ग ६ वेदै १४ क १ दशो १० नविंश १९ भै २७ कादशा ११ ष्टादश १८ विंश २० संख्याः । इष्टोडुना सूर्य्ययुतोडुना च योगादमूश्चेद्दशयोगभङ्गः ॥” कर्म्मकालीननक्षत्रसूर्य्यभुज्यमाननक्षत्रयोर्मेलने यदि पञ्चदशाद्यन्यतमसंख्या भवति तदा न कर्म्मयोग्यमित्यर्थः । सप्तविंशाधिकत्वे सप्त- विंशतिमपहाय शेषात् फलं अन्यथैकसंख्यानु- पपत्तेः ॥ * ॥
अपवादस्तु । “आद्यपादे स्थिते सूर्य्ये तुरीयांशं प्रदुष्यति । द्वितीयस्थे तृतीयन्तु विपरीतमतोऽन्यथा ॥” व्यक्तमाह स्वरोदये । “आद्यांशेन चतुर्थांशं चतुर्थांशेन चादिमम् । द्वितीयेन तृतीयन्तु तृतीयेन द्बितीयकम् ॥” अत्रैव खर्ज्जूरवेधः । तथा च रत्नमाला । “एकामूर्द्ध्वगतां त्रयोदश तथा तिर्य्यग्गताः स्थापयेत् रेखाश्चक्रमिदं बुधैरभिहितं खार्ज्जूरिकं तत्र तु । व्याघातादि तु मूर्ध्नि भन्तु कथितं तत्रैकरेखा- स्थयोः सूर्य्याचन्द्रमसोर्म्मिथो निगदिता दृक्पात एकार्गलः ॥” व्याघातादीतिव्याघातयोगसंख्याङ्कस्त्रयोदशा- ङ्कम् । तथा च हस्तादीनि नक्षत्राणि देया- नीत्यर्थः ॥ * ॥
अथ सप्तशलाकावेधः । दीपि- कायाम् । “कृत्तिकादिचतुःसप्तरेखाराशौ परिभ्रमन् । ग्रहश्चेदेकरेखास्थो वेधः सप्तशलाकजः ॥ सप्त सप्त विलिखेत् प्ररेखिका- स्तिर्य्यगूर्द्ध्वमथ कृत्तिकादिकम् । लेखयेदभिजिता समन्वितं चैकरेखगखगेन विध्यते ॥ वैश्यस्य चतुर्थेऽंशे श्रवणादौ लिप्तिकाचतुष्के च । अभिजित्तस्थे खेचरे विज्ञेया रोहिणीविद्धा ॥” लिप्तिकादण्डः ॥ * ॥
“यस्याः शशी सप्तशलाकभिन्नः पापैरपापैरथवा विवाहे । रक्तांशुकेनैव तु रोदमाना श्मशानभूमिं प्रमदा प्रयाति ॥” अस्यापवादो यथा, राजमार्त्तण्डे । “विषप्रदिग्धेन हतस्य पत्रिणा मृगस्य मांसं शुभदं क्षतादृते । यथा तथात्राप्युडुपाद एव प्रदूषितोऽन्योडुपदं शुभावहम् ॥” अथ पञ्चशलाकचक्रम् । “ऊर्द्ध्वं रेखास्थिताः पञ्च तिर्य्यक् पञ्च तथैव च । द्वे द्वे च कोणयो रेखे साभिजित् कृत्तिका- दिकम् ॥ शम्भुकोणे द्वितीये तु लेखयेत् सर्व्वकर्म्मणि । क्रूरैर्भिन्नमथो सौम्यैर्नैक्षत्रं परिवर्ज्जयेत् ॥ नत्वापाते च ये दोषा ये च सप्तशलाकके । ते सर्व्वे प्रभवन्त्यत्र नाम्ना पञ्चशलाकके ॥ अथ चक्रान्वये कश्चित् पादवेध इहेष्यते ॥” तदुक्तं रत्नमालायाम् । कैश्चित्तत्रापीष्यते पाद- वेध इति । इति पञ्चशलाकाचक्रम् ॥ * ॥
रत्नमालायाम् । “ऋक्षं द्वादशमुष्णरश्मिरवनीसूनुस्तृतीयं गुरुः षष्ठं चाष्टममर्कजस्तु पुरतो हन्ति स्फुटं नत्वया । पश्चात् सप्तममिन्दुजस्तु नवमं राहुः सितः पञ्चमम् । द्वाविंशं परिपूर्णमूर्त्तिरुडुपः सन्ताडयेन्नेतरत् ॥” नत्वापातोऽयम् ॥ * ॥
“पापात् सप्तमगः शशी यदि भवेत् पापेन युक्तोऽथवा यत्नात् तं परिवर्ज्जयेत् मुनिमतो दोषो ह्ययं कथ्यते । यात्रायां विपदो गृहे सुतवधः क्षौरेषु रोगोद्- भवो- ऽप्युद्वाहे विधवा व्रते च मरणं शूलञ्च पुंस्क- र्म्मणि ॥” * ॥
“रविमन्दकुजाक्रान्तं मृगाङ्कात् सप्तमं त्यजेत् । विवाहयात्राचूडासु गृहकर्म्मप्रवेशने ॥” यामित्रवेधः ॥ * ॥
“मूलत्रिकोणनिजमन्दिरगोऽथ पूर्णो मित्रर्क्षसौम्यगृहगोऽथ तदीक्षितो वा । यामित्रवेधविहितानपहृत्य दोषान् दोषाकरः शुभमनेकविधं विधत्ते ॥” * ॥
भोजराजः । “त्रिषड् दशैकादशगो दिनेशः सुतार्थसौभाग्यशुभप्रदः स्यात् । वैधव्यदाताष्टमराशिसंस्थः शेषेषु रुग्दुःखशुचः करोति ॥” रविशुद्धिः ॥ * ॥
“कन्यानक्षत्रशुद्धौ स्याद्ब वाहः शुभकृन्नृणाम् । पश्चाद्भर्त्तुर्व्विशुद्ध्या तु यात्रापुष्पोत्सवादयः ॥” विद्याधरीविलासे । “पुंसामर्कः स्मृतो योनिर्योषिताममृतद्युतिः । अतः पुंयोषितोः शस्तं वलमर्कशशाङ्कजम् ॥ गोचरथद्बाविन्दुं कन्याया यत्नतः शुभं वीक्ष्य । तिग्मकिरणञ्च पुंसः शेषैरबलैरपि विवाहः ॥ द्वितीयपुत्त्राङ्कगतः प्रभाकरः त्रयोदशाहात् परतः शुभप्रदः । न जन्मसप्तव्ययरन्ध्रगस्तथा करोति पुंसामपि तादृशं फलम् ॥” तथा त्रयोदशाहात् परतः ॥ * ॥
“त्रयोदशदिनान्यर्को दश षड्धरणीसुतः । सार्द्धं दिनञ्च शीतांशुर्मासमेकादशं तमः ॥ सौरिः पादाधिकं वर्षं मासानष्टौ बृहस्पतिः । भवनार्द्धं भृगुः सौम्यो यावद्राश्यशुभाः फलम् ॥ कष्टं व्रतादिके दद्युर्न तथा शेषभागगाः ॥ * ॥
लग्ने तत्पञ्चमे तूर्य्ये नवमे दशमे तथा । गुरुर्भृगुर्व्वा दोषघ्नो विवाहे वर्द्धते शुभम् ॥” अयमेव सुतहिवुकयोगः ॥ * ॥
“गोधूलिं त्रिविधां वदन्ति मुनयो नारीविवा- हादिके हेमन्ते शिशिरे प्रयाति मृदुतां पिण्डीकृते भास्करे । ग्रीष्मेऽर्द्धास्तमिते वसन्तसमये भानौ गते दृश्यतां सूर्य्ये चास्तमुपागते च नियतं प्रावृट्शरत्- कालयोः ॥ * ॥
लग्नं यदा नास्ति विशुद्धमन्यद्- गोधूलिकां तत्र शुभां वदन्ति । लग्ने विशुद्धे सति वीर्य्ययुक्ते गोधूलिका नैव फलं विधत्ते ॥ * ॥
नास्मिन् ग्रहा न तिथयो न च विष्टिवारा ऋक्षाणि नैव जनयन्ति कदापि विघ्नम् । अव्याहतः सततमेव विवाहकाले यात्रासु चायमुदितो भृगुजेन योगः ॥ * ॥
मार्गे गोधूलियोगे प्रभवति विधवा माघमासे तथैव पुत्त्रायुर्धनयौवनेन सहिता कुम्भे स्थिते भास्करे । वैशाखे सुखदा प्रजाधनवती ज्यैष्ठे पतेर्म्मानदा आषाढे धनधान्यपुत्त्रबहुला पाणिग्रहे कन्यका ॥” * ॥
विवाहपटले । “व्यूढा धनुषि च कुलटा तत्पूर्व्वार्द्धे सतीत्यपरे जगुः ॥” * ॥
ज्योतिःसारस ग्रहे । “विवाहे तु दिवाभागे कन्या स्यात् पुत्त्र- वर्ज्जिता । विरहानलदग्धा सा नियतं स्वामिघातिनी ॥ * ॥
महाभारते । “रात्रौ दानं न शंसन्ति विना चाभकदक्षि- णाम् । विद्यां कन्यां द्विजश्रेष्ठा दीपमन्नं प्रतिश्रयम् ॥” * व्यासः । “रिक्तासु विधवा कन्या दर्शेऽपि स्याद्बिवा- हिता । शनैश्चरदिने चैव यदा रिक्ता तिथिर्भवेत् । तस्मिन् विवाहिता कन्या पतिसन्तानवर्द्धिता ॥” स्मृतिः । “धर्म्मार्थकाममोक्षाणां दाराः संप्राप्तिहेतवः । परीक्ष्यन्ते प्रयत्नेन पूर्व्वमेव करग्रहात् ॥” * ॥
मनुः । “अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् । तनुलोमकेशदशनां मृद्वङ्गीमुद्वहेत् स्त्रियम् ॥” * शातातपः । “हंसस्वनां मेघवर्णां मधुपिङ्गललोचनाम् । तादृशीं वरयेत् कन्यां गृहस्थः सुखमेधते ॥” * ॥
भविष्ये । “प्रतिष्ठिततलाः सम्यक् रक्ताम्भोजसमत्विषः । तादृशाश्चरणा धन्या योषितां भोगवर्द्धनाः ॥” प्रतिष्ठितो भूमौ लग्नः समस्तलोऽधोभागो येषां ते तथा ॥ * ॥
मनुः । “नोद्वहेत् कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् । नालोभिकां नातिलोम्नीं न वाचाटां न पिङ्ग- लाम् ॥ नर्क्षवृक्षनदीनाम्नीं नान्त्यपर्व्वतनामिकाम् । न पक्ष्यहिप्रैष्यनाम्नीं न च भीषणनामिकाम् ॥” प्रतिप्रसवमाह मत्स्यसूक्ते । “गङ्गा च यमुना चैव गोमती च सरस्वती । नदीष्वासां नाम वृक्षे मालती तुलसी अपि । रेवती चाश्विनी भेषु रोहिणी शुभदा भवेत् ॥” कृत्यचिन्तामणौ । “नेत्रे यस्याः केकरे पिङ्गले वा स्याद्दुःशीला श्यावलोलेक्षणा च । कूपो यस्या गण्डयोः सस्मिताया निःसन्दिग्धां बन्धकीं तां वदन्ति ॥” * ॥
नन्दिकेश्वरपुराणे । “श्यामा सुकेशी तनुलोमराजी सुभ्रूः सुशीला सुगतिः सुदन्ता । वेदीविमध्या यदि पङ्कजाक्षी कुलेन हीनापि विवाहनीया ॥ धृष्टा कुदन्ता यदि पिङ्गलाक्षी लोम्ना समाकीर्णसमाङ्गयष्टिः । मध्ये च पुष्टा यदि राजकन्या कुलेऽपि योग्या न विवाहनीया ॥” * ॥
हारीतः । “तस्मात् कुलनक्षत्रविज्ञानोपपन्नां वरयेत् ।” नक्षत्रोपपन्नां नाडीनक्षत्रहीनाम् ॥ * ॥
नाडीनक्षत्रमाह स्वरोदये । “अश्विन्यादि लिखेच्चक्रं सर्पाकारं त्रिनाडिकम् । तत्र वेधवशाज्ज्ञेयं विवाहादि शुभाशुभम् ॥ त्रिनाडीवेधनक्षत्रमश्विन्यार्द्रायुगोत्तरा । हस्तेन्द्रमूलवारुण्यः पूर्ब्बभाद्रपदास्तथा ॥ याम्यः सौम्यो गुरुर्योनिश्चित्रा मित्रजलाह्वयम् । धनिष्ठा चोत्तराभद्रा मध्यनाडीव्यवस्थिताः ॥ * ॥
कृत्तिका रोहिणी सर्पो मघा स्वातीविशा- खके । उत्तरा श्रवणा पौष्णं पृष्ठनाडीव्यवस्थिताः ॥ * ॥
अश्व्यादिनाडीवेधर्क्षे षष्ठं द्वितीयकं क्रमात् । याम्यादितूर्य्यतूर्य्यञ्च कृत्तिकादिद्बिषट्ककम् ॥ एवं निरीक्षयेद्वेधं कन्यामन्त्रे सुरे गुरौ । पण्यश्रीस्वामिमित्रेषु देशे ग्रामे पुरे गृहे ॥ एकनाडीस्थधिष्टानि यदि स्युर्व्वरकन्ययोः । तदा वेधं विजानीयात् गुर्व्वादिषु तथैव च ॥ प्रकटं यस्य जन्मर्क्षं तस्य जन्मर्क्षतो व्यधः । प्रनष्टं जन्मभं यस्य तस्य नामर्क्षतो वदेत् ॥ द्वयोर्जन्मभयोर्वेधो द्बयोर्नामभयोस्तथा । नामजन्मर्क्षयोर्वेधो न कर्त्तव्यं कदाचन ॥ एकनाडीस्थिता चेत् स्यात् भर्त्तर्नाशाय चाङ्गना । तस्मान्नाडीव्यधो वीक्ष्यो विवाहे शुभमिच्छता ॥ प्राङनाड्या वेधतो भर्त्ता मध्यनाड्योभयं तथा । पृष्ठनाडीव्यधे कन्या म्रियते नात्र संशयः ॥ एकनाडीस्थिता यत्र गुरुर्म्मन्त्रश्च देवताः । तत्र द्वेषं रुजं मृत्युं क्रमेण फलमादिशेत् ॥ प्रभुः पण्याङ्गनामित्रं देशो ग्रामः पुरं गृहम् । एकनाडीगता भव्या अभव्या वेधवर्ज्जिताः ॥” प्रतिप्रसवमाह ज्योतिषे । “एकराश्यादियोगे तु नाडीदोषो न विद्यते ॥” स यथा । “एकराशौ च दम्पत्योः शुभं स्यात् समसप्तके । चतुर्थे दशमे चैव तृतीयैकादशे तथा ॥” समग्रहणाद्विषमसप्तके दोषः । तथा च । “योटके सप्तके मेषतुले युग्महयौ तथा । सिंहघटौ सदा वर्ज्यौ मृतिं तत्राब्रवीच्छिवः ॥” श्रीपतिव्यवहारनिर्णये । “सुहृदेकाधिपयोगे ताराबले वश्यराशौ वा । अपि नाड्यादिवेधे भवति विवाहो हितार्थाय ॥” राजमार्त्तण्डे । “न राजयोगे ग्रहवैरिता च न तारशुद्धिर्न गणत्रयं स्यात् । न नाडिदोषो न च वर्णदुष्टि- र्गर्गादयस्ते मुनयो वदन्ति ॥” * ॥
राजयोगस्तु एकराश्यादियोग एव तत्रैव नाड्यादिप्रतिप्रसवात् ॥ श्रीपतिरत्नमालायाम् । “अश्वे भाजफणिद्बयञ्च वृषभुङ्मेषोन्दुरुर्मूषिक- श्चाखुर्गौः क्रमशस्ततोऽपि महिषी व्याघ्रः पुनः सौरभी । व्याघ्रेणौ मृगकुक्कुरौ कपिरथोरभ्रद्वयं वानरः सिंहोऽश्वो मृगराट् पशुश्च करटी योनिश्च भानामियम् ॥ गोव्याघ्रं गजसिंहमश्वमहिषं श्वैणञ्च वभ्रूरगं वैरं वानरमेषकञ्च सुमहत्तद्वद्विडालोन्दुरुम् । लोकानां व्यवहारतोऽन्यदपि च ज्ञात्वा प्रय- त्नादिदं दम्पत्योर्नृपभृत्ययोरपि सदा वर्ज्यः शुभस्या- र्थिभिः ॥ मकरसमेतं मिथुनं कन्याकलसौ मृगेन्द्रमीनौ च । वृषभतुलेऽलिमेषौ कर्कटधनुषी च मित्रविधौ ॥” षडष्टकावितिशेषः ॥ * ॥
अरिषडष्टकमाह । “मकरः करिकुलरिपुणा कन्या मेषेण सह झषस्तुलया । कर्किघटौ वृषधनुषी वृश्चिकमिथुने चारिविधौ ॥ * ॥
यदि कन्याष्टमे भर्त्ता भर्त्तुः षष्ठे च कन्यका । षडष्टकं विजानीयाद्वर्ज्जितं त्रिदशैरपि ॥ * ॥
पुंसो गृहात् सुतगृहे सुतहा च कन्या धर्म्मे स्थिता सुतवती पतिवल्लभा च । द्विद्वादशे धनगृहे धनहा च कन्या ऋप्फे स्थिता धनवती पतिवल्लभा च ॥” षडष्टकादौ तारानियममाह भीमपराक्रमः । “सौहृद्ये ह्युभयोर्द्वयोरपि तयोरैकाधिपत्येऽपि वा तारा षष्ठसुमित्रमित्रदहनक्षेमार्थसम्पद्यदि । षट्काष्टे नवपञ्चमे व्ययधने योगे च पुंयोषितोः प्रीत्यायुःसुखवृद्धिपुष्टिजनकः कार्य्यो विवाह- स्तदा ॥” * ॥
गर्गः । “मरणं ताराविरोधे ग्रहरिपुभावे चिरेण । रोगादि नरनार्य्योः षट्काष्टके वैरमवश्यं भवे- दाशु ॥” * ॥
व्यासः । “मैत्रादियोगेऽपि षडष्टकादौ तारा विपत्प्रत्यरिनैधनाख्याः । वर्ज्या विवाहे पुरुषोडुतो हि प्रीतिः परा जन्मसु तारकासु ॥ नक्षत्रमेकं यदि भिन्नराशि- र्न दम्पती तत्र सुखं लभेताम् । विभिन्नमृक्षं यदि चैकराशि- स्तदा विवाहः सुतसौख्यदायी ॥” एकर्क्षा च यदा कन्या राश्येका च यदा भवेत् । धनपुत्त्रवती नारी साध्वी भर्त्तृप्रिया सदा ॥ षडष्टके गोमिथुनं प्रदेयं कांस्यं सरूप्यं नवपञ्चके तु । द्विद्वादशाख्ये कनकान्नताम्रं विप्रार्च्चनं हेम च नाडीदोषे ॥ मरणं नाडीदोषे कलहः षट्काष्टके विप- त्तिर्वा । अनपत्यता त्रिकोणे द्विद्वादशे च दारिद्य्रम् ॥” * ॥
कृत्यचिन्तामणौ । “हस्तास्वातिश्रुतिमृगशिरःपुष्यमैत्राश्विभानि पौष्णादित्ये जमुरिह बुधा देवसंज्ञानि भानि । पूर्ब्बास्तिस्रः शिवभभरणीरोहिणी चोत्तराश्च प्राहुर्मर्त्याह्वयमुडुगणं नूनमेतं मुनीन्द्राः ॥ चित्राश्लेषानिरृतिपितृभे वासवं वासवर्क्षं शक्राग्न्योर्भे वरुणदहनर्क्षे च रक्षोगणोऽयम् ॥” फलमाह श्रीपतिः । “स्वकुले चोत्तमा प्रीतिर्मध्यमा देवमानुषे । देवासुरे कनिष्ठा च मृत्युर्मानुषराक्षसे ॥ राक्षसी च यदा कन्या मानुषश्च वरो भवेत् । तदा मृत्युर्न दूरस्थो निर्घनत्वमथापि वा ॥” राजमार्त्तण्डे । “यदि स्याद्राक्षसो भर्त्ता कन्यका मानुषी भवेत् । विवाहे सुखमाप्नोति वैपरीत्यं विवर्ज्जयेत् ॥” युद्धजयार्णवे । “देवा जयन्ति युद्धेन सर्व्वथा नात्र संशयः । रक्षसां मानुषाणाञ्च संग्रामे निश्चया मृतिः ॥ कर्किमीनालयो विप्राः क्षत्त्राः सिंहतुलाहयाः । वैश्या युग्माजकुम्भाख्याः शूद्रा वृषमृगाङ्गनाः ॥ सर्व्वाः परिणयेद्विप्रः क्षत्त्रियो नवभाग्भवेत् । षडाश्रयो भवेद्वैश्यस्तिस्रः शूद्रे प्रकीर्त्तिताः ॥ वर्णश्रेष्ठा च या नारी हीनवर्णश्च यः पुमान् । महत्यपि कुले जाता नासौ भर्त्तरि रज्यते ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥
अन्यत् उद्वाहशब्दे द्रष्टव्यम् ॥ * ॥
* ॥
तत्प्रयोग यथा । अथ कृतवृद्धिश्राद्धः संप्रदाता लग्नसमये संप्रदानशालायां गत्वा उत्तरतः स्त्रीगवीं बद्ध्वा विष्टरादिकं सज्जीकृत्य पश्चिमाभिमुखोऽनुप- विष्टस्तिष्ठेत् । ततोऽग्रत उपस्थिते वरे संप्रदाता कृताञ्जलिर्वरणं कुर्य्यात् । ॐ साधु भवानास्ता- मिति पृच्छेत् । जामाता ॐ साध्वहमासे इति वदेत् संप्रदाता ॐ अर्च्चयिष्यामो भवन्तं इति पृच्छेत् । जामाता ॐ अर्च्चय इति वदेत् । ततः संप्रदाता पाद्यार्घ्याचमनीयगन्धमाल्य- यथाशक्त्यङ्गुरीयसपट्टकयज्ञोपवीतसपर्णपूगा- दिकं प्रदाय जामातरमर्च्चयेत् । ततः संप्रदाता दक्षिणं



Correction: