वाचस्पत्यम्
विवाहित || पु० विवाहो ज तोऽस्य तार० इतच् । जात- विवाहे ।
शब्दकल्पद्रुमः
विवाहितः || पुं क्ली, (वि + वह + णिच् + क्तः ।)
कृतविवाहः । यथा, —
“शनैश्चरदिने चैव यदि रिक्ता तिथिर्भवेत् । तस्मिन् विवाहिता कन्या पतिसन्तानवर्द्धिता ॥” अपि च । “विष्णुभाद्ये त्रिके चित्रे ज्येष्ठायां ज्वलने यमे । एभिर्विवाहिता कन्या नित्यमेव सुदुःखिता ॥” इति ज्योतिस्तत्त्वम् ॥