वाचस्पत्यम्
विवृत्त || त्रि० वि + वृत क्त । १ तिर्य्यक्चलिते २ प्रकटिते ३ क्षुद्र- रोगभे स्त्री भावप्र० । “विवृत्तास्यां महादाहां पक्वो- डुम्बरसन्निभाम् । विवृत्तामिति तां विद्यात् पित्तोत्थं परिमण्डलम्” परितः शोथवतामिति शेषः” ।
शब्दकल्पद्रुमः
विवृत्तं || त्रि (वि + वृत् + क्तः ।)
चलितम् । यथा, —
“विवृत्तपार्श्वं रुचिराङ्गहावं समुद्वहच्चारु नितम्बरम्यम् । आमन्द्रमन्थध्वनिदत्ततालं गोपाङ्गनानृत्यमनन्दयत्तम् ॥” इति भट्टिः ॥ विवृत्तं तिर्य्यक्चलितं पार्श्वं यत्र । इति तट्टीका ॥