शब्दकल्पद्रुमः
विवृत्तिः || स्त्री चक्रवद्भ्रमणम् । घूर्णनम् । विपूर्ब्ब- वृतधातोः क्तिप्रत्ययेन निष्पन्नमिदम् ॥ (विविध- वृत्तिः । यथा, भागवतटीकायां श्रीधरः । ३ । ६ । १० । “विश्वसृजां विवृत्तये विविधवृत्तिलाभाय ॥”)