विवेक
विवेकिन्
विवेकिता
शब्दकल्पद्रुमः
विवेकिता || स्त्री (विवेकिन् + तल् ।)
विवेकित्वम् । विवेकिनो भावः । यथा, —
“यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिता । एकैकमप्यनर्थाय किमु तत्र चतुष्टयम् ॥” इति हितोपदेशः ॥ (यथा, याज्ञवल्क्ये । ३ । १५६ । “आचार्य्योपासनं वेदशास्त्रार्थेषु विवेकिता ॥”)