संस्कृत-शब्दकोशः

विवेकिता विवेचक

विवेकिन्

वाचस्पत्यम्

विवेकिन् ||‍ त्रि० वि + विच—ष्टिवृण् । विवेकशीले मैरववंश्ये देवमेनपुत्रभेदे पु० कालिपु० ९ अ० ।


शब्दकल्पद्रुमः

विवेकी || [न्] पुं, (विवेकोऽस्यास्तीति । विवेक + इनिः ।)
देवसेनराजपुत्त्रः । यथा, —
“देवसेनोऽपि केशिन्यां जनयामास पुत्त्रकान् । सप्त शृणुत तान् यूयं नामतः कीर्त्तितांस्तथा ॥ सुमना वसुदानश्च ऋतध्रग्यवनः कृती । नीलो विवेकीत्येते वै सर्व्वशास्त्रविशारदाः ॥” इति कालिकापुराणे भैरववंशानुकीर्त्तने ९० अध्यायः ॥ विचारकर्त्ता । इति मेदिन्यां विवेक- शब्दार्थदर्शनात् ॥ विवेकविशिष्टे, त्रि ॥ (यथा, मार्कण्डेये । ६६ । ३४ । “दृष्टादृष्टांस्तथा भोगान् वाञ्छमाना विवे- किनः । दानानि च प्रयच्छन्ति पूर्णधर्म्मांश्च कुर्व्वते ॥”)



Correction: