संस्कृत-शब्दकोशः

विवेचक विवेचनीय

विवेचन

शब्दकल्पद्रुमः

विवेचनं || क्ली (वि + विच् + ल्युट् ।)
विवेकः । इति शब्दरत्नावली ॥ (यथा, हरिवंशे भविष्य- पर्व्वणि । ४३ । १८ । “विद्वद्भिर्गीयसे विष्णो त्वमेव जगतीपते । इच्छया सर्व्वमाप्नोषि दृष्टादृष्टविवेचनम् ॥” * ॥
निर्णयः । यथा, मनुः । ८ । २१ । “यस्य शूद्रस्तु कुरुते राज्ञो धर्म्मविवेचनम् । तस्य सीदति तद्राष्ट्रं पङ्केगौरिव पश्यतः ॥”)



Correction: