संस्कृत-शब्दकोशः

विव्रुवत् विश

विव्वोक

वाचस्पत्यम्

विव्वोक ||‍ पु० वि + वा—कु तस्य ओकः स्थानम् । “गर्वाभि- मानादिष्टेऽपि विव्वोकीऽनादरक्रिया” इत्युक्तलक्षणे स्त्रीर्णा शृङ्गारचेष्टाभेदे ।


शब्दकल्पद्रुमः

विव्वोकः || पुं, स्त्रीणां शृङ्गारभावजा क्रिया । इत्य- मरः ॥ अभिमतवस्तुप्राप्तावपि गर्व्वादनादरः सापराधस्य च संयमनं ताडनञ्च विव्वोकः । यदुक्तम् । “गर्व्वाभिमानादिष्टेऽपि विव्वोकोऽनादरक्रिया ।” तथा । “अभिमतवस्तूपहृतावपि गुरुगर्व्वादनादर- स्तन्व्याः । स्खलति प्रियस्य हृदयं संयमताडनमयन्तु विव्वोकः ॥” इति भरतः ॥ “विव्वोकस्त्वतिगर्व्वेण वस्तुनीष्टेऽप्यनादरः । न त्वराहर्षवागादेर्दयितागमनादिषु ॥” इति सारसुन्दरी ॥ “इष्टेऽपि गर्व्वमानाभ्यां विव्वोकः स्यादनादरः ॥” इत्युज्ज्वलनीलमणिः ॥



Correction: