संस्कृत-शब्दकोशः

विव्वोक विंशक

विंश

वाचस्पत्यम्

विश ||‍ न विश—क । १ मृणाले रायमु० । २ प्रवेशकर्त्तरि त्रि० ।


वाचस्पत्यम्

विश ||‍ पु० विश—क्विप् । १ मनुजे २ वैश्ये च अमरः ।


वाचस्पत्यम्

विश ||‍ प्रवेशे तु० पर० सक० अनिट् । विशति अविक्षत् । अधि + उपवेशने । अभि + नि + मनसः स्थितिहेतुसंयोगभेदे आत्म० एतदर्थे आधा- रस्य कर्मता धर्ममभिनिवेशते अन्यत्रार्थे न कर्मता । “या या संज्ञा यस्मिन् यस्मिन्नमिनिविशते” भाष्यम् । “क्वपि- दपवादविषयेऽप्युत्सर्गोऽभिनिविशते” व्या० परिभाषा । उप + आसनादौ स्थितिभेदे । नि + स्थितिभेदे आत्म० “निविशते यदि शूकशिखा पदे” मैम० निर् + उपभोगे “क्रीडारसं निर्विशतीव बाल्ये” कुमा० ‘निर्वेपी- भृतिभोगयोः’ अमरः “निर्विष्टविषयस्नेहः” रघु० । प्र + अभ्यन्तरगमने ।


शब्दकल्पद्रुमः

विश || औ श प्रवेशे । इति कविकल्पद्रुमः । (तुदा०-पर०-सक०-अनिट् ।)
श, विशति । औ, अविक्षत् । विवेश कश्चिज्जटिलस्तपोवनम् । विपराजिपरिव्यवक्रीनिविशेत्यादिनात्मनेपदवि- धानेऽपि भर्त्तुरङ्के निविशती भयादिति रघौ । केवलात् शतृप्रत्ययं विधाय पश्चादुपसर्गयोगा- दिति दुर्घटवृत्तिः । निशब्द इह उपसर्गप्रति- रूपको वा । यस्माद्विश्वमिदं सर्व्वं तस्य शक्त्या महात्मनः । तस्मादेवोच्यते विष्णुर्विशधातोः प्रवेशनादिति पुराणे विष्णुशब्दव्युत्पादनात् मूर्द्धन्यान्तोऽयमिति केचित् तच्चिन्त्यम् । ताल- व्यान्तस्यैव सर्व्वसम्मतत्वात् । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

विशं || क्ली (विश + कः ।)
मृणालम् । इत्यमर- टीकायां रायमुकुटः ॥ (तत्पर्य्यायो यथा, —
“पद्मनालं मृणालं स्यात्तथाविशमिति स्मृतम् ।” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)


वाचस्पत्यम्

विंश ||‍ त्रि० विंशतेः पूरणः विंशति + ड तिलोपः । येन विंशतिसङ्ख्यापूर्य्यते तस्मिन् ।


शब्दकल्पद्रुमः

विंशः || त्रि (विंशति + पूरणे डट् । तेर्लोपः ।)
विंशतेः पूरणः । इति सिद्धान्तकौमुदी ॥ (यथा, मनुः । ८ । ३९८ । “कुर्य्युरर्घं यथापण्यं ततो विंशं नृपो हरेत् ॥”)



Correction: