वाचस्पत्यम्
विंशक || न० विंशतेरवयवः ड्वुन् तिलोपः । विंशतिसंख्यायाम् । विंशतिरधिका दीयतेऽस्मित् शते आयो लाभो वृद्धिर्वा- ड्वुन् । प्रतिशतं विंशत्यधिकलाभादौ “सामुद्रा विंशकं शतम” इति याज्ञ० ।
शब्दकल्पद्रुमः
विंशकः || त्रि (विंशत्या क्रीतः । विंशति + “विशति- त्रिंशद्भ्यां ड्वुनसंज्ञायाम् ।” ५ । १ । २४ । इति ड्युन् । “ति विंशतेर्डिति ।” ६ । ४ । १४२ । इति तिलोपः ।)
विंशतिक्रीतः । इति सिद्धान्तकौमुदी ॥