शब्दकल्पद्रुमः
विशङ्कः || त्रि विगता शङ्का यस्य बहुव्रीहिः । शङ्कारहितः । (यथा, रघुः । २ । ११ । “धनुर्भृतोऽप्यस्य दयार्द्रभाव- माख्यातमन्तःकरणैर्विशङ्कैः ॥”)