वाचस्पत्यम्
विशङ्कट || त्रि० वि + शङ्कटच् । विशाले अमरः ।
शब्दकल्पद्रुमः
विशङ्कटः || त्रि (वि + “वेः शालच्छङ्कटचौ ।” ५ । २ । २८ । इति शङ्कटच् ।)
विशालः । इत्यमरः ॥ (यथा, भट्टिः । २ । ५० । “विशङ्कटो वक्षसि बाणपाणिः सम्पन्नतालद्वयसः पुरस्तात् ॥” भयानकः । यथा, कथासरित्सागरे । १०८ । १०७ । “मांसासृङ्मत्तवेतालतालवाद्यविशङ्कटः । अभून्नृत्यत्कबन्धोऽसौ भूतप्रीत्यै रणोत्सवः ॥”)